________________
४ सर्गः) हीरसौभाग्यम् । वाचंयमेन्द्राद्विमलादिचन्द्रात्पदाञ्जभृङ्गीभवदिन्द्रचन्द्रात् । अमुष्य पट्टः श्रियमश्नुते स्म परंतपाद्भप इव प्रतापात् ॥ ९३ ॥ विमलमिति पदमादी यस्य तादृशाञ्चन्द्रात् एतावता विमलचन्द्रात् सुरीश्वरात् अ. मुष्य श्रीमान देवसूरेः परः श्रियं शोभामश्रुते स्म । किंभूतो विमलचन्द्रः । पदाजयो. श्वरणकमलयो ङ्गीभवन्तो भ्रमराः संपद्यमाना इन्द्राः शक्राश्चन्द्राः शशाङ्का यस्य । कस्मादिव । प्रतापादिव । यथा-भूपो राजा परं वैरिणं तापयतीति सत्यार्थात्परंतपा. प्रतापात् सकाशालक्ष्मी शोभामश्नुते ॥ इति विमलचन्द्रसूरिः ।।
रेजेऽस्य पट्टे स्मररूपधेयः सूरीन्दुरुद्दयोतननामधेयः । दिग्वारणेन्द्रा इव सूरिचन्द्राः संजज्ञिरे यत्पदधारिणोऽष्टौ ॥९४ ॥
अस्य विमलचन्द्रसूरेः पदे पदे उद्दयोतननामा सूरीन्दुः रेजे वभासे । किंभूतः । म्मरः कामः तद्पधेयं प्रशस्तं रूपं यस्य । 'यं वभार दहनः खलु तापं रूपधेयभर. मस्य विमृश्य' इति नैषधे । यस्य उद्दयोतनसूरेः पधारिणः पट्टधराः अटी अष्टसं. ध्याकाः संजज्ञिरे संजाताः। के इव । दिग्वारणा इव । यथा- ऐरावत-पुण्डरीक-वामनकुमुद-अञ्जन-पुष्पदन्त-सार्वभौम-सुप्रतीक-इति नामान: अष्टी दिग्गजेन्द्राः भवन्ति॥ मुहूर्तमद्वैतमवेत्य टेलीग्रामस्य यः सीनि बृहवटाधः । अस्थापयच्चैत्यतरोस्तलेऽष्टौ पार्चे गणेन्द्रानिव काशिकुञ्जे ॥ ९५ ॥ य उद्दयोतनमूरिः अतं समग्रग्रहगोचरोचग्रहनवांशादिविशुद्धमुहूर्तममाधारणवेलामवेत्य ज्ञात्वा टेलीनानो ग्रामम्य सीन्नि सीमायां बृह(टायो महतो न्यग्रोधद्रुमस्य तले अधस्ताद्भमा अष्टौ गणेन्द्रानाचार्यानस्थापयत् स्थापयति स्म । क इव। पार्थ इव । यथा श्रीपार्थनाथः काशिको वाराणमीपुरीपरिसरवने ममवसरणमध्यस्थितसर्वजनछायाकारिकेवलज्ञानोत्पत्तिकपादपश्चैत्यतरुस्तस्य नले अटी गणधरान् स्थापितवान् ।। शाखा प्रशाग्वाभिरमुल्य वृद्धि हहटम्यैव यतो भवित्री । ततो बृहद्दच्छ इतीह नामापरं गणम्य प्रकटीबभूव ।। ९६ ॥ यतो बम्माकारणात शाखा वयरीमुख्या: प्रशाखास्तदुद्भवा अपरापरनामधेयम्पाताभिः कृत्वा अमुध्य गणस्य वृद्धिर्भवित्री विस्तारो भावी । कस्येव । बह्वटस्येव । यथा बृहतो महतो वृद्धस्य वा वटस न्यग्रोधस्य प्रक्षवृक्षम्य शाखाप्रशाखाभिर्वृद्धिर्महान् विस्तारो भवति । ततः कारणात इह जगति भूमीमण्डले चन्द्रगच्छ स्य बहद्गच्छ: लोकोक्त्या 'वडगच्छ' इत्परं पञ्चमं नाम प्रकटीवभूव । विख्यातं जातम् ॥ इति श्रीउ. योतनमूरिः । अत्र गच्छस्य बृहद्गच्छस्यवडगच्छा इति पञ्चमं नाम जातम् ॥ माहात्म्यनम्रीकृतसर्वदेवः पदे तदीयेऽजनि सर्वदेवः । तारापतिस्तारकपपदेव गुणश्रिया यः प्रभुरन्वयायि ॥ ९७ ॥ .
२०