SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १६८ . काव्यमाला। वचनानां विलासो वैचित्र्यं वैदुषी वा सुधायते पीयूषवदाचरति ॥ इति रविप्रभसूरिः ॥ वर्धिष्णुयत्कीर्तिसुधार्णवेन व्यलुम्पि नामाप्यसितादिभावैः । अर्हन्महिमेव जगत्यजन्यैः सोऽभूद्यशोदेवविभुः पदेऽस्य ॥ ९ ॥ अस्य रविप्रभसूरेः पदे स यशोदेवनामा विभुर्गणाधिपोऽभूजज्ञे । स कः । वधिष्णुर्वर्घनशील: । 'दूरवर्धिष्णुपापर्धिः' इति पाण्डवचरित्रे । यशोदेवसूरेः कीर्तिरेव सुधा-. र्णवः क्षीरसमुद्रस्तेन कृत्वा करणपदम् । असितादिभावैः कृष्णनीलपदार्थैः खनामापि . व्यलुम्पि लुप्तम् । तद्यशोभिर्धवलीकृते सर्वविश्वे नीलादिपदार्थाः क्वापि नावसीयन्ते इति लोपः । केनेव । अर्हन्महिनेव यथा तीर्थकृन्माहात्म्येन करणपदेन कृत्वा जगति भूलोके अजन्यैः ईतिमिः खनामापि लुप्यते । 'अजन्यमीतिरुत्पातः' इति हैम्याम् ॥ इति यशोदेवसूरिः॥ प्रद्युमदेवोऽथ पदे तदीये प्रद्युम्नदेवोऽभिनवो बभूव । मिन्दन्मवं मुक्तरतिर्दवीयो भवन्मधुर्विश्वक्भिाव्यमूर्तिः ॥ ९१ ॥ .. अथानन्तरं तदीये यशोदेवसंबन्धिनि पदे प्रद्युम्नदेवनामा सूरिर्बभूव । किभूतः । अभिनवो नवीनः प्राचीनो द्विसदृशलक्षण: प्रद्युम्नदेवः कन्दर्पदेवः । अभिनवत्वमेव दर्शयति। किं कुर्वन् । भवं संसार भिन्दन् उच्छेदयन् । स्मरस्तु भवेन शंभुना भिन्नः, अयं खयं भवं मिनत्ति । पुनः किंभूतः । मुक्का त्यता रतिः विश्वे स्यादिपदार्थेषु प्रीतिरासक्तिर्वा येन । स्मरस्तु रतिप्रियः । पुनः किंभूतः । दवीयः अतिशयेन दूरे भवत्संपद्यमानं मधु मद्यं वा यस्मात् । स्मरस्तु मधुर्वसन्तः सहायो यस्य । पुनः किंभूतः । विश्वेन जगजनेन विमाव्या लोचनकचोलकैनिपीयमानलावण्यामृता सादरमवलोक्यमाना वा मूर्तिः शरीरं यस्य । स्मरस्त्वनकः ॥ इति प्रद्युम्नदेवसूरिः ॥ श्रीमानदेवेन पुनः स्वकीर्तिज्योत्स्वावदातीकृतविष्टपेन। . एतत्पदश्रीरगमि प्रतिष्ठां शक्तित्रयेणेव नरेन्द्रलक्ष्मीः ॥.९२ ॥ पुनर्नाना तृतीयवारं श्रीमानदेवेन सूरिणा एतस्य प्रद्युम्नदेवस्य पदश्रीः पट्टलक्ष्मीः प्रतिष्ठां सातिशायिशोभां विख्याति वा अगमि प्रापिता । 'न्यादयो ण्यन्तनिष्कर्मग. त्या मुख्यकर्मणि । प्रलयं यान्ति दुधादिगौणेऽन्ये तु यथारुचि ॥ अस्योदाहरणानि यथा-निन्ये विजनमजागरि रजनिमगमि मदमवाचि संभोगम् । गोपी हावमकार्यत मावश्चनामनन्तेन ॥' इति प्रक्रियाकौमुद्याम् । अयं ण्यन्तः गम्धातुप्रयोगः । किंभूतेन मानदेवेन । खस्यात्मनः कीर्तिरेव ज्योत्स्ना कौमुदी तया अव.. दावीकृतं धवलितं विष्टपं त्रिभुवनं येन प्रतिष्ठां प्रापिता । केनेव । शक्तित्रयेणेव । यथा प्रभुत्वोत्साहमवलक्षणेन शक्तित्रिकेण नरेन्द्रस्य राज्ञः श्रीः राज्यलक्ष्मीः प्रतिष्ठां प्राप्यते ॥ इति तृतीयमानदेवसूरिः ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy