SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ४ सर्गः] हीरसौभाग्यम् । १६७ स मानदेवोऽजनि तस्य पट्टे वाग्देवता यन्मुखपद्मसद्म । तृप्तामृतैश्चारुवचोविलासच्छलादिवोद्गारमिवातनोति ॥ ६ ॥ तस्य समुद्रसूरेः पट्टे स भुवि विख्यातो यशोभिः प्रथितः श्रीमानदेवसूरिरजनि । स कः । यस्य मानदेवसूरेर्मुखपद्मं वदनकमलमेव सद्म वसतिर्यस्यास्तादृशी वाग्देवता स. रखती सुधाशनत्वादमृतैः सुधारसैः तृप्ता आकण्ठपानादतितृप्ति प्राप्ता सती चारवो मनोज्ञा ये वाग्विलासा वचोवैचित्र्यः तेषां छलात्कपटात्तदुद्गारममृतोद्गारमिवातनोति कुरुते ॥ इति द्वितीयश्रीमानदेवसूरिः ॥ पदे तदीये विबुधप्रमेण म भूयते सूरिपुरंदरेण । येनाभिभूतः किल पुष्पधन्वा पुनर्युयुत्सुर्विषमायुधोऽभूत् ॥ ८७ ॥ तदीये मानदेवसूरिसंबन्धिनि पदे पदे विबुधप्रभेण सूरिपुरंदरेण आचार्यशक्रेण भूयते स्म संजातम् । येन श्रीविबुधप्रभसूरिणा अभिभूतः पराजितः पुष्पधन्वा कामः । किलेत्युत्प्रेक्षायाम् । काव्यकल्पलतायामुक्तत्वात् । पुनर्युयुत्सुर्द्वितीयवारं प्रभुणा समं योझुमिच्छुः सन् विषमानि तीक्ष्णानि दुर्जेयान्यायुधानि शस्त्राणि यस्य तादृशोऽभूदिव । मृदुलास्त्रोऽभिभूयते न विषमास्त्रः ॥ इति विबुधप्रभसूरिः ॥ तत्पट्टपकेहमानसौकाः श्रीमाञ्जयानन्दविभुर्बभूव । यस्याशयेऽमात्समयोऽप्यशेषः कुम्भोद्भवस्य प्रसृताविवाब्धिः ॥ ८ ॥ • श्रीलक्ष्मीः शोभा वा विद्यते यस्मिन् स श्रीमान् जयानन्दनामा विभुर्गच्छाधिपः . तस्य विवुधप्रभसूरेः पट्टः स एव पढेरुहं कमलं तत्र मानसौका हंसो बभूव । स कः । यस्याशये हृदये अशेषः समग्रोऽपि समय: सिद्धान्तोऽमान्ममौ । आशयशब्देन हृदयमपि यथा । 'दयासमुद्रे स तदाशयेऽतिथी चकार कारुण्यरसापगा गिरः' इति नैषधे । आशयो मन इति तद्वृत्तिः । कस्यामिव । प्रस्ताविव । यथा कुम्भोद्भवस्यागस्तिमुनेः प्रसतौ प्रसारिताङ्गुलौ पाणौ अब्धिः समुद्रो भाति स्म ॥ इति जयानन्दसूरिः ॥ ___यदाननं चन्द्रति दन्तकान्तिर्घोत्लायते भ्रूयुगमङ्कतीह । वाचां विलासोऽपि सुधायते तत्पदे मुनीन्द्रः स रविप्रभोऽभूत् ॥८९॥ तस्य जयानन्दसूरेः पदे स रविप्रभनामा मुनीन्द्रोऽभूत् । स कः । यस्य रविप्रभसूरेराननं मुखं चन्द्रति चन्द्र इवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विप् वा आचारे इ. त्येके' इति क्विपप्रत्यये तदुदाहरणानि कृष्ण इवाचरतीति कृष्णति खति कृष्णामास खामासेति प्रक्रियाकौमुद्याम्, तथात्रापीति । यस्य दन्तानां कान्तिोत्स्नायते चन्द्रिकेवाचरति । 'कर्तुः क्यङ् सलोपश्च' । उपमानात्कर्तुः सुबन्तादाचारेऽर्थे क्यङ् स्यात्सलोपश्च । 'अकृत्सार्वधातुके इति दीर्घः' इति प्रक्रियायाम् । इह मुखचन्द्र भ्रूयुगमङ्कति लाञ्छनवदाचरति। अत्राप्याचरणार्थे विप् । अपि पुनरिह वक्रविधौ वाचां
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy