________________
काव्यमाला।
__ स्वःकामिनीभिः सुराङ्गनाभियादिकारित्वादप्सरोभिः खर्वेश्याभिर्वा कीर्तिता पदे पदे गीता अथवा गीतिभिर्विस्तारिता कीर्तिर्यस्य । 'कीर्तिर्यशसि विस्तारे' इत्यनेकार्थः । तादृशो देवानन्दो नाम मुनीन्द्रस्तस्य जयदेवसूरेः पट्टश्रियं पवैभवं शोभामानिनाय प्रापयति स्म । किं कृत्वा । चिदानन्दे मोक्षे मनो यस्य । क: कामिव ! तारुण्यमेणाकमुखीमिव । यथा यौवनं चन्द्रवदनां श्रियं लम्भयति ॥ इति देवानन्दसूरिः ॥
श्रीविक्रमः सूरिपुरंदरोऽभूत्तत्पट्टदुग्धाब्धिसुधामरीचिः । तमश्चमूं हन्तुमनाः समग्रां कि विक्रमोऽङ्गीकृतकाययष्टिः ॥ ८२॥ ततो देवानन्दसूरेरनन्तरं श्रीविक्रमनामा सूरिषु पुरंदरः इन्द्रो बभूव । किंभूतः । तस्य देवानन्दसूरेः पट एव दुग्धाब्धिः क्षीरसमुद्रस्तत्र तस्य वा वृद्धिकारित्वात्सुधाम- . रीचिश्चन्द्रः । उत्प्रेक्ष्यते-समयां समस्तामपि तमसामज्ञानानां पापानां चमू सेनां समूह वा हन्तुं व्यापादयितुमङ्गीकृता गृहीता काययष्टिः शरीरं येन तादृशो विक्रमः किमु । मूर्तिमान् पराक्रम इवेत्यर्थः ॥ इति विक्रमसूरिः ॥
आसीत्ततः श्रीनरसिंहसूरिः स वाङ्मयाम्भोनिधिपारदृश्वा । अत्याजि यक्षः किल येन मांसं खापं.जगद्वारिजबन्धुनेव ॥ ८३ ॥ ततो विक्रमसूरेः पट्टे श्रीनरसिंहनामा सूरिरासीत्संजातः । किंभूतः । वाङ्मयं सि. द्धान्तः स एवाम्भोनिविः समुद्रस्तस्य पारं दृष्टवा निति पारदृश्वा पारगामी । 'कनिप्वनिए वा' इति सारखतसूत्रेण वनिप्प्रत्ययः । किलेति श्रूयते । येन नरसिंहमूरिणा कश्चिदनिर्दिष्टनामा यक्षो वटवासी मांसमत्याजि त्याजितः । प्रतिबोध्य मासाशनिताममोचयदित्यर्थः । केनेव । वारिजबन्धुनेव । यथा सूर्येण जगद्विश्वं खापं निद्रावस्था त्याज्यते॥ इति नरसिंहसूरिः॥
महर्घ्यमाणिक्यमिवाङ्गुलीयं षोमाणभूपालकुलप्रदीपः । पट्टश्रियं श्रीनरसिंहसूरेरलंकरोति स्म समूद्रसरिः॥ ८४ ॥ श्रीनरसिंहसूरेः पश्रियं समुद्रनामा सूरिरलंकरोति स्म । किंभूतः । खोमाणनामानो ये भूपाला राजानस्तेषां कुले वंशे गृहे वा उद्योतकारित्वात्प्रदीप इव प्रदीपः । किमिव । महर्यमाणिक्यमिव । यथा बहुमूल्यं रत्नमङ्गुलीयं मुद्रिकामलंकुरुते ॥ दिग्वाससो येन विजित्य वादे नागहदे नागनमस्यतीर्थम् । खवश्यमानीयतं भूमिभ; दुर्गः प्रतीपानिव संपराये ॥ ५ ॥ येन समुद्रसूरिणा नागहूदाख्ये नगरे वादे शास्त्रचर्चासमये दिग्वाससोऽनेकान्दिगम्बरान्विजित्य निरुत्तरीकृत्य नागेन धरणोरगेन्द्रेण नमस्यं नमस्करणीयं तीर्थ पार्श्वनाथ बिम्बं खवयं जैनश्वेताम्बरसंघायत्तमानीयत । केनेव । भूमिभव । यथा संपराये संग्रामे प्रतोपान्वैरिणो निर्जिय दुर्गः कोटः खवश्यः क्रियते ॥ इति श्रीसमुद्रसूरिः ।।