________________
१६०
दुर्भिक्षके पायसमेक्ष्य लक्षपकं महेभ्यस्य गृहे प्रभुर्यः । दिने द्वितीये कुलदेवतेव न्यवेदयद्भाविसुकालमस्य ॥ ६१ ॥
काव्यमाला |
यः वज्रसेनः प्रभुर्गणस्वामी दुर्भिक्षके द्वितीयवारं द्वादशहायनजलवाहारृष्टेरुद्धृतदुःकालसमये श्रीवज्रखामिना दक्षिणस्यां दिशि प्रेषितः सन् अस्य महेभ्यस्य द्वितीये आगामिनि दिने वासरे भावि भविष्यत्सुभिक्षं सुकालं न्यवेदयत् कथयामास । केव । कुलदेवतेव ! यथा सम्यगाराधिता गोत्रदेवी सुभिक्षं निवेदयति । किं कृत्वा । एक्ष्य आलोक्य । किम् । पायसं परमान्नम् । किंभूतं पायसम् । लक्षेण सुवर्णटङ्कानां शतसहख्या पक्कं शालि दुग्धादि मेलयित्वा राद्धं निष्पन्नम् । कस्मिन् । यस्य कस्यचिन्महे - भ्यस्य व्यवहारिणः गृहे मन्दिरे । तस्यैव चतुर्नन्दनस्येभ्यस्य दीक्षाग्रहणवाग्वन्धपूर्वकं स्वस्तनदिने याममध्ये पञ्चशतीयुगंधरीधान्यभृतवहनागमनैर्भाविसुकालमावेदितवानि - त्यर्थः ॥
चत्वार एतत्तनया विनेयाः शाखाभृतस्तस्य विभोर्बभूवुः । इवामरद्वेषिचमूजयश्रीजुषः सुरेन्द्रद्विरदस्य दन्ताः ॥ ६२ ॥
चत्वारः चतुःसंख्याका एतस्य महेभ्यस्य तनया नन्दनास्तस्य वज्रसेनस्य विभोः स्वामिन: विनेयाः शिष्या बभूवुः । नागेन्द्र-चन्द्र- निर्वृति-विद्याराख्याः शाखा बिभ्रति धारयन्तीति तादृशाः । कस्य के इव । सुरेन्द्रद्विरदस्य दन्ता इव । यथा शक्रगजस्य ऐरावणस्य दन्तकोशाश्चत्वारो भवन्ति । किंभूता दन्ताः । अमरद्वेषिणां दानवानां चमूनां सेनानां जयस्य विजयस्य श्रियं लक्ष्मीं जुषन्ते सेवन्ते ॥ इति वज्रसेनसूरिः ॥ भर्त्रा सुराणामिव लोकपालेष्वेतेषु सौदर्ययतीश्वरेषु । श्रीचन्द्रनाम्ना मुनिपुङ्गवेन तत्पट्टपूर्वा प्रमदेन भेजे ॥ ६३ ॥
एतेषु नागेन्द्र-चन्द्र-निर्वृति-विद्याराभिधेषु चतुर्षु सौदर्येषु भ्रातृषु यतीश्वरेषु स्रिषु मध्ये चन्द्रनाम्ना मुनिपुङ्गवेन सुरीन्द्रेण तस्य वज्रसेनसूरेः पट्ट एव पूर्वा प्राचीदिकू भेजे सिषेवे । केन । प्रमोदेनानन्देन । केनेव । भर्त्रेव । यथा इन्द्र-यम- वरुण - कुबेराख्येषु लोकपालेषु मध्ये सुराणां देवानां भर्त्राधिपतिना शक्रेण पूर्वाशा सेव्यते ॥
राजा स्वयं राजनतं सदोषो निर्दोषमङ्कोपगतो निरङ्कम् |
सास्तो निरस्तं च निजाधिकं यं समीक्ष्य चिक्षाय शशी किमर्त्या ॥ ६४ ॥
यं चन्द्रसूरिं निजादात्मनः सकाशात् अधिकं समीक्ष्य दृष्ट्वा शशी चन्द्रः । उत्प्रेक्ष्यते । अर्त्या दुःखेन किमु विक्षाय क्षीणो जात इव । आधिक्यमेव दर्शयति । किंभूतः शशी । स्वयमात्मना एको राजा । यं किंभूतम् । राजभिर्भूमीन्द्रैर्नतं नमस्कृतम् । 'राजा तु नृपचन्द्रयक्षेषु' इति अनेकार्थः । पुनः किंभूतः शशी । सह दोषैः कलङ्कादिकैर्दोषिया रात्र्या च तत्पतित्वाद्वर्तते यः । यं किंभूतम् । निर्गता दोषा अपगुणा