SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ४ सर्गः] हीरसौभाग्यम् । मूतैरिव स्वस्य गुणैः प्रफुल्लत्पुष्पोत्करैः पर्युषणाक्षणेषु । समुन्नतिं शाम्भवशासनस्य तस्यां सुनन्दातनयस्ततान ॥ १७ ॥ __ सनन्दः नाम्नी धनगिरिपत्नी तस्यास्तनयो नन्दनो वज़खामी पर्युषणाक्षणेषु वार्षिकपर्वष्टादिकादिवासरमहोत्सवेषु तस्यां बौद्धनगया शाम्भवस्य जैनस्य शासनस्य उन्नति प्रभावनां ततान चकार । कैः । प्रफुल्लत्पुष्पोत्करैः विकसत्कुसुमसमूहैः । उत्प्रेक्ष्यते । मू. तैरङ्गयुतैः खस्य वज्रखाम्यात्मनः प्रशमादिभिर्गुणैरिव ॥ प्राबोधयद्वौद्धपुरीप्रभुं यः समं समग्रैरपि पौरलोकैः । साकं शकुन्तैरिव पङ्कजानां कुलं समुद्यद्गनाध्वनीनः ५८॥ यो वेज्रखामी बौद्धपुरीप्रभुं मुगतनगरीखामिनं प्राबोधयत् प्रतिबोधयति स्म । जैनं चकारेत्यर्थः । कथम् । सार्धम् । कैः । समग्रैः समस्तैरपि पौरलोकर्नागरिकजनैः समम् । क इव । समुद्यद्गगनाध्वनीन इव यथा अभ्युदयं प्राप्नुवन् भास्करः शकुन्तैर्विहंगर्मः साकं सह पङ्कजानां पद्मानां कुजं वनं कमलपटलं प्रवोधयति । जागरयति वि. काशयति च ॥ अपास्यति स्माद्यसुतां सरागां यो रुक्मिणी काञ्चनकोटिभिश्च । क्रीडन्मृगेन्द्रां स्मितसल्लकीभिनिकुञ्जराजीमिव कुञ्जरेन्द्रः ॥ १९ ॥ यो वज्रवानी काञ्चनानां मुतर्णकानां कोटिभिः । 'कोडीसए धणसंचियस्स गुणस्स भरियारा कन्नाए' इत्युपदेशमालांवचनात् । कोटीनां शतैः सममाव्यस्य महाव्यवहारिणः मुतां पुत्री रुक्मिणीति नान्नी कन्याम् अपास्यति म त्यक्तवान् । किंभूताम् । सरागां खसोधसंनिधिस्थितसाध्वीगीयमानयगुणग्रामा कर्णनोद्धृतानुरागवशंवदतया 'अस्मिन् भवे मम प्राणनाथो वनस्खाम्येव नान्यः' इति कृतनिश्चयतया सस्नेहां जहौ । क इव । कुञ्जरेन्द्र इव । यथा गजराजः सितसल्लीभिर्विकसितगजप्रियातरुपतिभिः सार्ध 'स. लकी तु गजप्रिया' इति हैम्याम् । निकुअराजी वनमालामपास्यति । किंभूतां निकुञ्ज. • राजीम् । क्रीडन्मृगेन्द्रां स्वेच्छया रममाणपश्चाननाम् ॥ इति वज्रस्वामी ॥ श्रीवज्रसेनोऽथ तदीयपढें व्यभासयत्प्रीणितजन्तुजातः । स्फुरन्मदोद्भेद इव द्विपेन्द्रकपोलमानन्दितचञ्चरीकः ॥ १० ॥ अथानन्तरं वज्रसेननामा सूरिस्तदीयपढें वज्रवामिसंवन्धिपदं व्यभासयत् भूषयति स्म । किंभूतो वज्रसेनः । प्रीणितानि प्रतिबोधप्रदानेन तृप्तियुक्तानि कृतानि जन्तूनां प्राणिनां जातानि समूहा येन । क इव । स्फुरन्मदोद्भेद इव । यथा प्रकटीभवन् दानो. दकोदयः दीप्यमानः शोभाकारी दानजलाविर्भावो वा द्विपेन्द्रस्य गजराजस्य कपोलं गण्डस्थलमलंकुरुते । किंभूतः । आनन्दिता यथाकामं कुसुमामोदाभिभावुकमदाम्भ:पातेन प्रमोदिताश्चञ्चरीका मधुकरनिकरा येन ।।
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy