________________
१५८
काव्यमाला । क्लवानां किशलयाना लीलया विलासेनालंक्रियते । पुनर्यो वज्रखामी प्राग्जन्मनः पूर्वदे. वभवसंबन्धिनो मित्रात् सुहृद्भावमासादितात् त्रिदशात् तिर्यक्ज़म्भकनिर्जरात् नभो. गविद्यामाकाशगामिनी विद्या मत्रविशेषं पुनरन्यां वैफियलब्धि नवीनरूपादिविकुर्वाणां शकिं च आपल्लेभे ॥
दुर्भिक्षवर्षेषु सुभिक्षभूमी संघ कृपानीरनिधेनिनीषोः । - वज्रप्रभोर्यस्य पटः पटीयान्विमानवयोमनि दीप्यते स्म ॥ ५४॥ .
यस्य वज्रप्रभोः पटो वस्त्रं वपुराच्छादनवसनं कल्प: व्योमनि आकाशे विमानवत् दिव्ययानमिव दीप्यते स्म शुशुभे । किंभूतः पटः । अतिशयेन पटुः पटीयान् पटुमहती बहुसंघजनोपवेशनोचितां वृद्धि प्राप्तः । ईप्सितस्थान प्रापयितुं समर्थो वा । किंभूतस्य वज्रप्रभोः । कृपायाः दुर्भिक्षसीदत्संघजनोपरिदयाया नीरनिधेः समुद्रस्य । अत एव किं कर्तुमिच्छोः । निनीषोर्नेतुमिच्छोः प्रापयितुकामस्य । कम् । संघसाधुसाध्वीश्रावकश्राविकारूपजैनवर्गम् । काम् । सुभिक्षभूमी प्रभूतनिष्पन्नधान्यशतशोऽनुभावसुकालव.. सुधां बौद्धनगरीम् । केषु । दुर्भिक्षवर्षेषु कालानुभावाद्वादशवत्सरी यावन्मेघजलविन्दु. मात्रवृष्टेरभावेन अन्नपानदौल याद्दुःकालसंवत्सरेषु ॥ ..
सहैव देहेन समग्रसंघ नयत्यसौ सिद्धिपुरीमिवैनम् । । जनैरिति व्योमनि तळमाणः पटः प्रभोबौद्धपुरीमवाप ॥ ५५ ॥ प्रभोर्वघ्रस्खामिन: पट: कल्पः वस्त्रं वा बौद्धपुरी सुगतनगरीमवाप गतः प्राप्तः । पट: किं क्रियमाणः । इति अमुना प्रकारेण जनैलॊकैव्योमनि आकाशे अर्थाद्गच्छन् वितय॑माणो विचार्यमाणः । इति कथम् । यदसौ वज्रखामिपटो देहेन'वर्तमानेन उदारिकशरीरेणैव सह एनं दृश्यमानं समग्रमखिलं संघं सिद्धिपुरी भुक्तिनगरी नयति प्रापयतीव ॥ ध्यातुर्वरं श्रीः श्रुतदेवतेव यस्यादरात्पद्ममदत्त पद्मा। वनापितुर्मित्रहुताशनस्याग्रहाच्च यो विंशतिलक्षपुष्पान् ॥ १६ ॥ पर्युषणदिनेषु अष्टाहिकामहोत्सवं कर्तुमिच्छोः जैनद्विष्टतया बौद्धनृपतिवारितमालितमण्डलात् पुष्पमात्रमप्यनाप्नुवतः संघस्य कृते कुसुमानयनार्थ प्रस्थितस्य पद्महदे यातस्य यस्य वज्रवामिनः पद्मा लक्ष्मीः आदरात् भक्तिभरतः स्तवनवन्दनपूर्वकं पञ खहृदा सहस्रपत्रमादाय भगवत्पूजार्थ प्रयान्ती श्रीस्तत्सहस्रदलकमलं पद्मार्थोपगतायास्मै अदत्त दत्तवती । केव । श्रुतदेवतेव । यथा सरखती ध्यातुर्ध्यानकर्तुः पुंसः वरमभिमतार्थसिद्धिं दत्ते । च पुनर्यो वज्रखामी पितुर्धनगिरेमित्रस्य हुताशननामदेवस्य वनात्काननात् तत्सुरेणैवावचित्यानीय ढौकितान् विशतिलक्षमितान् पुष्पान् कुसुमान्यग्रहीत् गृहीतवान् । मित्रतिर्यक् जम्भकदेवविनिर्मितविमाने स्थापितवानित्यर्थः । पुष्पशब्दः पुनपुंसके ॥