________________
४ सर्गः] हीरसौभाग्यम् ।
१५७ यः सीहगिरि म व्रतीन्द्रो मुनिपुरंदर एधमानं जगजनाश्रयत्वेन वर्धमानं कोपं क्रोधं निषिषेध न्यवारयत् । क इव । निपीताब्धिरिव । यथा अगस्तितापसः कथंचित् सूर्यमार्गरुन्धनाय वर्धितुं प्रवृत्तविन्ध्याचलं निषेधते स्म । च पुनर्यस्य सीहगिरिसूरेवाक्तरङ्गैर्वचनचातुर्यरसकल्लोलैः कृत्वा जिताभिभूता सती अभ्रसिन्धुर्गगनगङ्गा । उत्प्रे. क्ष्यते। त्रपातिरेकात् लजातिशयात् निम्नं नीचैर्गच्छतीति निम्नगेवासीदधोवदना जाता ॥ इति सीहगिरिसूरिः ॥
तमोभरोवीधरभेदवज्रिवज्रोऽथ वज्रप्रभुरेतदीयम् । पढें परां प्रापयति स भूषां माणिक्यकोटीर इवोत्तमाङ्गम् ॥ ११ ॥ अथानन्तरं वज्रप्रभुर्वज्रस्वामी एतदीयं सीहगिरिसंघन्धिनं पट्ट परां प्रकृष्टां भूषा लक्ष्मी प्रापयति स्म । किंभूतो वज्रप्रभुः । तमसामज्ञानानां पापानां च भरः समुदायः स एवोवीधरः पर्वतस्तत्य भेदे व्यापादने दलने वज्रिणः शक्रस्य वज्र इव कुलिशः । हीरमणिशङ्कामपाकर्तुं वज्रीति पदोपादानम् । तथा च नैषधे-'स्फुलिङ्गाः स्फुटं भालो. दूतभवाक्षिभानुहुतभुग्जम्भारिदम्भोलयः' इति । क इव अलंकृतवान् । कोटीर इव । यथा माणिक्यानां मणिविशेषाणां कोटीरो मुकुटः उत्तमाङ्गं भूपालमौलिं नृपमस्तकं श्रियं नयति ॥
आशैशवादेव जहौ निजाम्बां वेलामिव क्षीरनिधेः सुधांशुः । अध्यैष्ट यः पालनके शयानोऽप्येकादशाङ्गी स्मृतपूर्वजन्मा ॥ १२ ॥ • यो वज्रस्वामी आशैशवादेव । किंचिन्यूनषण्मास्यवस्थामारभ्य रोदनदम्भेनेत्यान्तरं निजामात्मीयामम्बां सुनन्दानाम्नी मातरं जही त्यजति स्म । क इव । सुधांशुरिव । यथा चन्द्रो वाल्यादेव सहरिसुरासुरकरैर्मन्दरेण मथ्यमानक्षीरनीरनायकान्तरोत्पत्तिसमये एव क्षीरनिधेदुग्धवारिधेवलां जहाति. स्म । च पुनर्यः पालनके बालकानामन्दोलनस्थानकविशेष शयानोऽपि वपन्नपि एकादशानामाचाराङ्ग-सूत्रकृदङ्ग-स्थानाङ्गसमवायाङ्ग-भगवत्लङ्ग-ज्ञाताधर्मकथाङ्ग-उपासकदशाङ्ग-अन्तकृद्दशाङ्गाण-अनुत्तरोपपातिका'दशाङ्ग-प्रश्रव्याकरणाङ्ग-विपाकश्रुताङ्ग-रूपाणामगाणां समाहार एकादशाङ्गी ताम"ध्येष्ट अधीतवान् कण्ठपीठीकरोति स्म । स्वसंनिधिस्थितवहुश्रुतार्यिकागण्यमानैकादशाङ्गसूत्रश्रवणादेव पूर्वाधीतामेकादशाङ्गी स्मृतवानित्यर्थः । अत एव किंभूतम् । स्मृतं खहगोचरीकृतं पूर्व प्राक्तनं जन्मावतारो येन । जातिस्मरणेनाविज्ञातप्राचीनजन्मा ॥
यः पुष्पदः पल्लवलीलयेव वैराग्यलक्ष्म्यालमकारि बाल्ये । प्राग्जन्ममित्रात्रिदशान्नभोगविद्यां पुनक्रियलब्धिमापत् ॥ १३ ॥
यो वनस्वामी बाल्ये शैशवे वैराग्यलक्ष्म्या संयमग्रहणबुद्ध्या संसारासारताभावनधिया वा अलमकारि अलंकृतः भुष्यते स्म । क इव । पुष्पद इव । यथा पादपः प.