SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | १५६. पवित्र्यते । येन भानुना च किंभूतेन । भिन्नो निर्दलितस्तमसामज्ञानानां पाप्मनां वा ध्वान्तानां च भरः समूहो येन ॥ इति श्रीइन्द्र दिन्नसूरिः ॥ श्रीदिन्नसूरिर्गुणभूरिरस्मात्सप्तर्षिभूरङ्गिरसो यथासीत् । येनानुरागोऽवधि कालनेमिः कल्लोलिनीवल्लभशायिनेव ॥ ४७ ॥ अस्मात् श्रीइन्द्रदिन्नसूरेः श्रीदिनसूरिरासीत् । किंभूतः । गुणा भूरयो बहुला - यस्मिन् । कस्मात्क इव । अङ्गिरसः सप्तर्पिभूरिव । यथा । अङ्गिरा नाम तापसविशेषस्तस्मात् बृहस्पतिर्जातः । 'वृहस्पतिः मुराचार्यो जीवश्चित्रशिखण्डिजः । सप्तर्षयश्चित्रशिखण्डिन:' इति हैम्याम् । तथा । 'गीर्वृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः इत्यपि हैम्याम् । येन दिनसूरिणा अनुरागो हतः । केनेव । कल्लोलिनीवल्लभशायिनेव । यथा नारायणेन कालनेमिर्नामा दैलो निहन्यते स्म ॥ पञ्चाशुगान्यः समितीविंधाय बभञ्ज पञ्चाशुगपञ्चबाणीम् । शरेण केनापि न चेत्कदाचित्कस्मान्न तं स प्रभवेद्वपुष्मान् ॥ ४८ ॥ यो दिन सूरिः पञ्च ईर्ष्या-भाषा- एषणा - आदाननिक्षेपपा - पारिष्टा पनि काख्याः पञ्चसंख्याकाः समितीराचारविशेषान् पञ्च प्रमाणान् आशुगान् बाणान् विधाय पञ्चाशुगस्य कामस्य पञ्चानां बाणानां समाहारः पञ्चवाणी तां पञ्चापि सायकान् बभज भनक्ति स्म | ‘चिच्छेद' इत्यपि पाठः । तत्र छिनत्ति स्मेत्यर्थः । एवं चेत्तर्हि स धनुष्मान् स्मरधनुर्धरः कदाचित् कस्मिन्नपि प्रस्तावे केनापि संमोहन- उन्माद - तापन शोषण मारणाख्यानां पञ्चानां विशिखानां मध्ये केनचित् शरेण कृत्वा तं दिन्नसूरि कस्मात्कारणात् न प्रभवेत् प्रहरेत् । ‘आद्य संमोहनोन्मादौ परौ तापनशोषणी । तथा मारण इत्याहुः पञ्च बाणा मनोभुवः ॥' इति स्मरवाणनामानि सूक्ते ॥ इति दिनसूरिः ॥ सूरीश्वरः सीहागिरिः क्रमेण व्यभासयत्तत्प्रभुपट्टलक्ष्मीम् । जिनस्य पादं शिरसा स्पृशन्तीं निकाय्यराजीमिव केतुवारः ॥ ४९ ॥ क्रमेण पट्टपरिपाट्या सीगिरिर्नामा सूरीश्वरः स चासी प्रभुश्च तत्प्रभुस्तस्य दिन्नसूरेः पट्टलक्ष्मी व्यभासयत् कान्तिमतीं चकार । भूषयति स्मेत्यर्थः । क इव । केतुवार इव । यथा ध्वजजो निकाय्यराजीं सौधधोरणीं विभासयति । पट्टलक्ष्मी निकाय्यराजीं च किंभूताम् । शिरसा मस्तकेन आदिना च । 'माथासिरऊं' इति लोकप्रसिद्धित्वात् । शृङ्गेण च जिनस्यार्हतः पादं पट्टपरम्पराया आदिभूतत्वाजिनस्य विष्णुपदमाकाशं च । स्पृशन्तीमाश्रयन्तीम् ॥ विन्ध्यं निपीताब्धिरिव व्रतीन्द्रो य एधमानं निषिषेध कोपम् । यद्वाक्तरङ्गैश्च जिताभ्रसिन्धुस्त्रपातिरेकादिव निम्नगासीत् ॥ ९० ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy