________________
४ सर्गः]
हीरसौभाग्यम् ।
यस्मात्सः । पुनः किंभूतः शशी । अड्रेन मध्यवर्तिश्यामतालक्षणेन लाञ्छनेन गुरुदारा• धिगमनात्कल नापवादेनोपगतो युक्तः। यं किं भूतम् । निर्गतोऽङ्गः संयममालिन्यादिकलको मन्तुर्वा यस्मात् । 'अङ्को भूषारूपकलक्ष्मसु । चित्राजौ नाटकाद्यंशे स्थाने कोडेऽन्तिकागमोः ॥ इत्यनेकार्थः । पुनः किंभूतः शशी। सहास्तेन वर्तते यः । यं किंभूतम् । निर्गतोऽस्तः क्षयो यस्मात्सदाभ्युदयत्वात् ।।
श्रीचन्द्रसूररथ चन्द्रगच्छ इति प्रथा प्रादूरभूद्गणस्य । भागीरथीनाम भगीरथाख्यमहीमहेन्द्रादिव देवनद्याः ॥ ६५ ॥
अथ चन्द्रमरिपट्टभवनानन्तरं श्रीयुक्ताचन्द्रनामसूरेगणस्य कोटिकगच्छस्य चन्द्रगच्छ इति प्रथा ख्यातिः प्रादुरभूत् प्रकटोभूता । कस्मात्कत्या इव । भगीरथाख्यमहीमहेन्द्राद्देवनद्या इव । यथा सगरचक्रिज्येष्टनन्दनजहुकुमारसूनुर्भगीरथ इत्याख्या नाम यस्य नादृशान्महीमहेन्द्राद्वमुधावासवात् एतावता भगीरथभूपात् देवनद्या गङ्गाया भागीरधीति नाम प्रकटीभूतम् ॥ इति चन्द्रमूरिः ॥ इति गच्छस्य चन्द्रगच्छ इति तृतीयं नाम । कल्लोलिकारुण्यरसान्वितस्य सामन्तभद्रप्रभुरस्य पट्टम् । व्यराजयद्वारिरुहाकरस्य मध्यं यथोन्निद्रितपुण्डरीकम् ॥ ६६ ॥ अस्य चन्द्रसूरेः पटं सामन्तभद्रप्रभुळगजयत् विभूषयामास । अस्य किंभूतस्य । कल्लोलास्तरका बाहुल्येन वृद्धिः संजातास्मिंस्तादृशेन कारुण्याख्येन कृपानाम्ना रसैनान्वितो युक्तः । तस्य । अत्रापि यथा इवार्थे । किमिव । मध्यमिव । यथा वारिरुहाकरस्य • तटाकस्य मध्यमन्तरालमुनिद्रितं विकस्वरीभूतं पुण्डरीकं श्वेतकमलविशेषं विराजयति॥
वैमुख्यभाग्यो विषयात्कुरङ्गद्वेषीव जज्ञे विपिने निवासी । : तस्मान्मुनीन्दोवनवासिसंज्ञा परा पुनः प्रादुरभून्मुनीनाम् ॥ ६७ ॥ ___ यः सामन्तभद्रप्रभुः विपिने वन एव निवसति तिष्ठतीति एवंशीलो जज्ञे जातः । प्रायो वनवास्येवासीदित्यर्थः । किंभूतः । विषयात् शब्दरूपगन्धरसस्पर्शसंज्ञात् गोचरात् वैमुख्यं पराङ्मुखतां भजते सेवते । सर्वथापि तेषु मनोमात्रमकुर्वन् । क इव । । करइद्वेषीव । यथा मृगेन्द्रो विपिने निवासी स्यात् । किंभूतः । विषयाद्देशात् अथ वा
वसझमेर्विमुखतामाश्रयेत् । तस्मात्सामन्तभद्रात्सूरेर्मुनीन्दोः सूरेर्मुनीनां साधूनां पुनश्चतुर्थवारं परा अन्या वनवासीति चतुथीं संज्ञा नाम प्रादुरभूत् प्रकटीबभूवुषी ॥ इति सामन्तभद्रसूरिः ॥ इति गच्छस्य वनवासीति चतुर्थ नाम ॥ कोरण्टके वीरजिनेन्द्रमूर्ति दृक्पान्थवृत्तिं कृतपुण्यपाकाम् । यः प्रत्यतिष्ठत्किमु सत्रशालां म वृद्धदेवोऽजनि तस्य पट्टे ॥ ६८ ॥ म प्रसिद्धो वृद्धदेवनामा सूरि: सामन्तसूरेः पट्टेऽजनि जज्ञे । यत्तदोनित्य भिसंब. वात्स कः । यो वृद्धदेवसूरिः कोरण्ट के कोरण्टकनानि नगरे वीरजिनेन्द्रस्य रहावीर