________________
४ सर्ग:]
गैरसौभाग्यम् ।
धत्ते म धारयति स्म । किंभूतः । यः यतीनां साधूनां पतिः खामी गणधरः । क इव । * चक्रीव । यथा चक्रवतों चतुर्दशरत्नानि धत्ते । च पुनर्यः कचित्कुत्रचिद्देवकुटे यक्षाद्यायत ने । क्वचित्सिहगुहायामपीति श्रूयते । यक्षाः, यक्षदिन्नाः, भूताः, भूतदिनाः, सेना, वेना, रेणा : क्वचिदेगापि नामद्न्द्रम् । एतन्नाम्नी: खजामीः सत्पापिनिजभगिनीः । क्वचिंदेकामेकैवभूतां स्वसार चित्रीयितुमाश्रर्ययुक्ताः कर्तुमाश्चर्यमुत्पादयितुं सिंहः केसरिरूपधारक आस बभूव । क इव । सल इव । यथा सत्यः अवतयः पनाननो
भवति ॥
येनोपदेशच्छलतः स्वपाणिसंज्ञाज्ञया स्तम्भतलाददार्श । निधिः स्वनिक्षिप्त इव प्रवासिसुहृहिण्याः सदने समेत्य ॥ ३६ ॥
येन श्रीस्थूलभद्रेण सदने अर्थान्मित्रमन्दिरे समेत्यागत्य प्रवासिनः परदेशाध्वनीनस्य। व्यापारार्थ याचनाकृते वा परमण्डले यातस्य । ब्राह्मणत्वाद्याचनाया न दोषः । एताहशस्य मुहृदः खमित्रस्य गृहिण्याः पत्न्या निधिनिधानमदर्शि दर्शितः । कस्मात् । स्तम्भतलात् । स्तम्भादधःप्रदेशात् । कया । संसारासारताप्रकटनसुहृत्करणानुभावखर्गापवर्गादिप्रापकलक्षणस्य उपदेशस्य धर्मदेशनादानन्त्यस्य च्छलतो मिषतः स्वस्यात्मनः पाणेहस्तस्य संज्ञा दर्शनादिचेष्टा सेवाज्ञा आदेशस्तया । क इव । खनिक्षिप्त इव । यथा आत्मनो हस्तेन भूमौ गुप्तीकृत्य रक्षितः निधिः खेष्टस्य दश्यते ॥ इति स्थूलभद्रखामी॥ पट्टेऽथ तस्यार्यमहागिरिश्चापरः क्रमादार्यसुहस्तिसूरिः । बभूवतुर्धर्मधुरं दधानौ रथं यथा सारथिकस्य रथ्यौ ॥ ३७॥ अध श्रीस्थूलभद्रे स्वर्गमलकुर्वाणेऽनन्तरं तस्य स्थूलभदस्य पट्टे क्रमात् द्वौ पट्टधरौ वभूवतुः सजाती । द्वौ को । एक आर्यमहागिरिः च पुनरपर आर्यमुहस्तिसूरिः । द्वावपि किं कुर्वाणः । धर्मस्य श्रीमन्महावीरप्रणीतस्य मोक्षमार्गसाधकस्य सुकृतस्य धुरं दधानों धर्मकर्मणि कमेटी । यथा अत्र इवार्थे । कस्मिन् काविव । रथे रथ्याविव । यथा सारधिकस्य रथे म्यदने रथ्यौ रथस्य वोढारी द्वौ वृषभी भवतः ॥ .. मरुद्गृहादार्यसुहस्तिमूर्तिभूमौ मरुद्वृक्ष इवोत्ततार ।
कृपार्णवेन दमकोऽपि येन त्रिखण्डभूमीप्रभुतामलम्भि ॥ ३८॥ आयसुहस्तिनामा सूरिस्तस्य मूर्तिः शरीरं यस्य तादशः । उत्प्रेक्ष्यते । मरुद्गहात् खर्गलोकात् मरुदक्षः कल्पद्रुमः भूमौ पृथिव्यामुत्ततार अवतीर्णवान् आगतवानिव । कृपाणवेन दबासमुद्रण येनायमुहस्तिसूरिणा द्रमको भिक्षुकोऽपि त्रिखण्डभूमेः षो. उशसहस्रदेशक्षोणेः प्रभुतामाधिपत्यमलम्भि प्रापितः ॥
भूसुध्रुवो भर्तृतया प्रगल्भभूषाविशेषानिव शातकौम्भान् । सपादलक्षानिह संप्रतियों निर्मापयामास महाविहारान् ।। ३९ ।।