________________
४ सर्गः] हीरसौभाग्यम् :
१४९ अधस्तः अधोभूमिभागात् सकोपप्रश्नोत्तरकालं यज्ञवृत्तवृहद्विजोक्त्या जिनेन्दोः श्रीशान्तिनाथस्य प्रतिमा मूर्ति प्रकटीचकार कर्षति स्म । 'सिजंभवं गणहरं जिणपडिमादं. सणेण पडिबुद्धम्' इति दशवैकालिके । अन्यत्तु वृत्त्यादौ । क इव । किरीटीव । यथा अर्जुनः खस्य गुरोः पितामहस्य वृद्धस्य वा । 'मातापिता कुलाचार्य एतेषां ज्ञातयस्तथा। वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ अथ वा गुरुगाङ्गेय इति लोकोक्त्यापि गाने यस्य परशासनेऽपि गुरुगाङ्गेय इति प्रसिद्धत्वाद्गुरुरिति पदोपादानम् । एक्संज्ञया दृष्टिचेटया वा नाराचस्य बाणस्य मोचनसमय एव प्रादुर्भूतखच्छसुरभिखादृशीतलविशदपयःप्रवाहस्य लोके बाणगङ्गेति प्रसिद्धिर्जाता। तां बाणगङ्गां प्रकटीकरोति स्म । अयं व्यतिकरः पाण्डवचरित्रे॥
वगाह्य शास्त्रं मनकाहसूनोः कृते कृतश्रीदशकालिकं यः । हरिः सुधामुद्धतवान्सुपर्ववर्गस्य निर्मथ्य यथाम्बुनाथम् ॥ २३ ॥
यः शय्यंभवगणधारी मनक इत्याला नाम यस्य तादृशस्य सूनोः खनन्दनस्य कृते कार्याय परलोकसाधनाथ दशाध्ययनयुक्तं विकाले दिनावसानवेलायां कृतमतो दशवैकालिकं नाम सूत्रमकृत चके । किं कृत्वा । वगाह्य [अवगाहयित्वा । किम् । शास्त्रं सर्वसिद्धान्तसाङ्गोपाङ्गचतुर्दशपूर्वलक्षणम् । क इव । हरिरिव । यथा नारायणः सुपर्ववर्गस्य देववृन्दस्य कृते सुधापीयूषमुद्धृतवान् । किं कृत्वा । अम्बुनाथं समुद्रं निर्मथ्य विलोड्य यथा झ्वार्थे । 'पूर्वापरौ तोयनिधी वगाह्य' इति कुमारसंभवे । 'वष्टि भागुरिर लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । 'यादःस्रोतोवानंदीशः' इति हैम्याम् । वार्धेजलपतित्वमुभयत्र पर्यायपरिवर्तनं च ॥ इति शय्यंभवखामी ॥
संपूरयन्कीर्तिनभोनदीभिर्दिशो यशोभद्रगणाधिराजः । व्यभूषयत्पट्टममुष्य भूभृदधित्यकां दस्युरिव द्विपानाम् ॥ २४ ॥ यशोभद्रनामा गणाधिग्जो गच्छपतिरमुष्य शय्यंभवगणभृतः पट्ट व्यभूषयत् । किं कुर्वन् । कीर्तयः खयशां. ता एव नभोनद्यो गङ्गाः । अर्थात् गङ्गाप्रवाहाः । त्रैलोक्यां त्रिश्रो(स्रो)तोभिः प्रवहमानत्वेन त्रिपथगा अतो बहुवचनम् । ताभिः कृत्वा दिशो दशाप्याशा: संपूरयन् । निर्झरं भरन् व्याप्नुवन् व्यभूषयत् । क इव । दस्युरिव । यथा द्विपानां हस्तिनां शत्रुः केसरी भूभृतः शैलस्य अधित्यकामूर्ध्वभूमी विभूषयति ॥
एतद्यशःक्षीरधिनीरपूरैः संपूरितायां परितस्त्रिलोक्याम्। अबुध्यमानोऽम्बुनिधि स्वशय्यां पद्मेशयोऽभूदिव पद्मनामः ॥ २५ ॥ पद्म नाभौ यस्य स पद्मनाभः कृष्णः । उत्प्रेक्ष्यते-पद्मे कमले शेते खपितीति
१. 'शय्यंभवं गणधरं जिनप्रतिमादर्शनेन प्रतिबुद्धम्' इति संस्कृतम्. २. 'समुद्रम् इति मूलपाठः. ३. प्रक्षिप्तम् ; ल्यबादेशापत्तेः.