SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। वधूरद्वैतप्रागल्भ्यभाजा येन जम्बूप्रभुणा वशीकृता खायत्ता निर्मिता। त्वया सह सङ्गं विधाय एतस्यामवसापिण्यां नान्यं भारतभवं जनमभिलषामीति वाग्बन्धप्रदानपूर्वमात्मसात्कृता ॥ इति जम्बुखामी ॥ अलंचकार प्रभवप्रभुस्तत्पट्टश्रियं पुण्ढ़ इवेन्दुवक्राम् । स्तेनापि सार्थेश इवाङ्गिनो यः श्रेयःश्रियं प्रापयदत्र चित्रम् ॥ १९॥ प्रभवनामा प्रभुः स्वामी तस्य जम्बूखामिनः पट्टश्रियं पट्टलक्ष्मीमलंचकार भूषयति . स्म । क इव । पुण्द्र इव । यथा चित्रकं तिलकम् इन्दुवक्रां चन्द्रमुखी वशामलंकरोति। यः प्रभवप्रभुः स्तेनापि तस्करीभूयापि सार्थेशः सार्थपतिरिवाङ्गिनो जनान् श्रेयःश्रियं कुशलकलितां कमलां मोक्षलक्ष्मी च प्रापयत् लम्भयति स्म । तल्लक्ष्मीप्रदानमत्र(प्र). भवप्रभौ चित्रमाश्चर्यकारकमस्ति । 'श्रेयःपुरीम्' इति पाठे मुक्तिनगरी नयति स्म ॥ किं वर्ण्यते वर्ण्यगुणस्य चौर्यचातुर्यमस्य प्रभवस्य भर्तुः। अहार्यमप्येष मनोऽभिधानमपाहरद्यत्रिदिवेन्दिरायाः ॥ २० ॥ अस्य जम्बूपधरस्य प्रभवस्य प्रभवनाम्नो भर्तुः खामिनो गणधरस्य चौर्यस्य वा चातुर्य कौशल्यं तस्करताप्रागल्भ्यं किं कया रीत्या विस्मयकृत्तया कथं वा वर्ण्यते प्रशस्यते स्तूयते वा । अस्य किंभूतस्य । वा जगजनैर्लोकोत्तरतया श्लाघनीया गुणाः शमदमसंयमरूपा यस्य । यत्कारणादेष प्रभवप्रभुः त्रिदिवेन्दिरायाः खर्गलक्ष्म्याः अहार्य देवताश्रयत्वान केनापि हर्तुं शक्यमपि मनोभिधानं निधिमपाहरजहार । मुक्तिगमनाभावात् खर्लोकमेवालंकृतवानित्यर्थः ॥ इति प्रभवखामी ॥ शय्यंभवोऽभूषयदस्य पढें सिंहासनं पित्र्यमिवावनीन्द्रः'। कलिन्दिका मौक्तिकमालिकेव यत्कण्ठपीठे विलुंठत्यकुण्ठा ॥ २१ ॥ शय्यंभवनामा भट्टः अस्य प्रभवस्वामिनः पट्टम् अभूषयत् पदमलंकरोति स्म । क इव । अवनीन्द्र इव । यथा नवाभिषिक्तभूपतिः पितुरिदं पित्र्यं पितुः संन्धि सिंहासनं केसरिणोपलक्षितमासनं सिंहासनं भूषयति । यस्य शय्यंभवगणधरस्य कलापीठे मुख एव कलिन्दिकाः सर्वविद्याः चतुर्दशापि पूर्वाणि वा लुठति तिष्ठति । समायातीलथः । किंभूता कलिन्दिका । अकुण्ठा स्फुरद्रूपा । केव । मौक्तिकमालिकेव । यथा मुक्ताहार• लता कस्यापि भाग्यवतः पुंसो गलकन्दले लुठति । किंभूता। अकुण्ठा दीप्यमाना । आमलकप्रमाणमुका ॥ यूपादधस्तः प्रतिमां जिनेन्दोर्वाचा स वाचंयमपुङ्गवस्य । दृक्संज्ञयेव स्वगुरोः किरीटी नाराचगङ्गां प्रकटीचकार ॥ २२॥ . यः शय्यंभवभः वाचंयमपुङ्गवस्य प्रभवप्रभोर्वाचा गिरा यूपात्खप्रारब्धयज्ञस्तम्भात् १. 'त्रिदिवाङ्गनायाः' इति मूलपाठः,
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy