________________
४ सर्गः] .
हीरसौभाग्यम् ।
तस्य सुधर्मखामिनः पट्टे जम्बूकुमारोऽजनि जज्ञे। किंभूतः । यशःश्रिया कीतरवदाततालक्ष्म्या अध:कृतास्तिरस्कृता जिताः कुन्दानि कुन्दतरुकुसुमानि कम्बवः शहाश्व येन सः । लघोः शिशोरपि यतो जम्बूकुमारात् खस्यात्मनः पराभूति तिरस्कारं पश्यन् विलोकमानः स्मरः । उत्प्रेक्ष्यते--हिया लजयेव अदृश्यः दृशोरगोचरः अनङ्गत्वात् अभूत् ॥
उज्झांचकारीष महेभ्यकन्या मदेन्दिरामूर्तिमतीरिवाष्टौ । नवाधिका यो नवतिं हिरण्यकोटीर्नु चेटीरिव दोषराजाम् ॥ १६ ॥ एष जम्वूकुमारः अष्टौ अष्टसंख्याका महेभ्यानां खसकन्यानां पाणिमोचनपर्वणि जम्बूकुमाराय नवनवकोटीप्रदानलक्षणतो महाव्यवहारिणां कन्याः कुमारिका: उज्झांचकार त्यजति स्म । उत्प्रेक्ष्यते-मूर्तिमतीः शरीरभाजो मदेन्दिराः कुलजातिरूपश्रुतैश्वर्यतपोलब्धिबलरूपाष्टमदलक्ष्मीरिव जहाँ। च पुनर्यो जम्बूः नवभिरधिका नवतिं नवनवतिमिता हिरण्यानां सुवर्णानां कोटीरुज्झांचकार तत्याज । उत्प्रेक्ष्यते-दानान्तरायला. भान्तरायवीर्यान्तरायभोगान्तरायोपभोगान्तरायहास्यरत्यरतिजुगुप्साशोककाममिथ्यात्वाज्ञाननिद्राविरतिरागद्वेषरूपाणामष्टादशसंख्याकानां दोषाणामेव राजा भूपानाम् । राजशब्दो व्यजनान्तः । 'राजा राट् पृथ्वीशक्रः' इति हैमीवचनात् । चेटीसीरिव जहाति स्म । साधुः पुमान् दासीसङ्गं न कुर्यात् ॥
वशंवदीभूतजगत्रयस्य न पुस्फुरेऽस्मिन्कमनस्य शक्त्या । हविर्भुजो भस्मितकाननस्य विस्य॑ ते किं महसाम्बुराशौ ॥ १७ ॥ अस्मिन् जम्बुकुमारे । जम्बूशब्दो दी? हखोऽप्यस्ति । 'मत्कृते जम्बुना त्यक्ता नवोढा नवकन्यका' इति कल्पवृत्तौ । कमनस्य कन्दर्पस्य शक्त्या स्फूर्त्या सामर्थन प.राक्रमेण न पुस्फुरे न स्फुरितं नालंबभूवे । किंभूतस्य कामस्य । वशंवदीभुतं वश्यं
खाज्ञाकारिसंजातं जगत्रयं त्रैलोक्यं यस्य सः । युकोऽयमर्थः । हविर्भुजो वट्वेर्महसा प्र. तापेन किं किमिति प्रश्न । अम्बुराशौ समुद्रे स्फूर्यते समर्थीभूयते । अपि तु न । किभूतस्य हविर्भुजः । भस्मितं भस्मीकृतं भस्मावशेषं विहितं ज्वालितं काननं वनम् । 'उपलक्षणत्वात्पुरादि येन तस्य ॥ . पश्यन्तु वैदुष्यमगुष्य जम्बूप्रभोर्वपुत्सितमत्स्यकेतोः । विश्वं वृषस्यन्त्यपि पांशुलेव वशीकृता येन शिवस्मितास्या ॥ १८ ॥ हे प्राज्ञाः अमुध्यास्य जम्बूप्रभोर्जम्बूस्वामिनः वैदुष्यं विदुषो भावश्चातुर्य पश्यन्तु विलोकयन्तु । किंभूतस्य जम्बूप्रभोः । वपुषा अर्थात् शरीरसौन्दर्येण भासतस्तिरस्कृ. तोऽधिकृतो मत्स्य केतुर्मकरध्वजः कामो येन । पांशुलेव स्वैरिणी व्यभिचारिणीव वि. श्वमखिलमपि जगजनं वृषस्यन्ती कामयमाना । 'वृषस्यन्ती कामुकी स्यात्' इति है. भ्याम् । अत्यर्थमभिलषन्त्यपि शिवाख्या मुक्तिनानी सितास्या विकसितकमलवदना