________________
१४६
काव्यमाला।
पानीयैदीप्यते मौक्तिकीभूय दीप्तिमीभिर्जायते । 'शुक्तिबजे वारिमुचो यथाद्भिः' इति पाठः । यथा इवार्थे। शेषं प्राग्वत् ॥
सरखतीशालिलसज्जिनश्रीरगाधमध्यो रसभासमानः । सिद्धान्त आस्ते यदुपज्ञमुद्यदभङ्गभङ्गः सरितामिवेशः ॥ १३ ॥ यदुपज्ञं यः सुधर्मखा. उपज्ञा आद्यं ज्ञानं यत्र तत्कर्तृकत्वात् । 'उपज्ञोपक्रमं तदा- . चिख्यासायाम् । उपज्ञोपक्रमयोरादेरा(चिख्यानेच्छायां तदन्तस्तत्पुरुषो नपुंसकः .' स्यात् । पाणिनेरुपज्ञा पाणिन्युपज्ञं ग्रन्थः तेनादौ कृत इत्यर्थः । नन्दस्य उपक्रम नन्दोपक्रमं द्रोणः तेनादौ उपक्रान्त इत्यर्थः । इति प्रक्रियाकौमुद्याम् । सिद्धान्त आगमः सरितां नदीनामीशः पतिः समुद्र इवास्ते विद्यते। किंभूतः सिद्धान्तः समुद्रश्च । सर.. खत्याः श्रुतदेव्याः सरः प्रसरणं मुखे अस्त्यस्यास्तत्त्वेन तदधिष्ठापकत्वात् । तया. वा शालते शोभते इत्येवंशीलस्तथा लसन्ती दीप्यमाना जिनानां तीर्थकृतां श्रीरतिशयादिलक्षणा शोभा वा यत्र । पक्षे-नदीभिस्तत्पतित्वात् शालमानस्तं तथा लसन्तो क्रीडन्तौ श्लिष्यन्तौं वा । 'लस श्लेषणक्रीडनयोः' इति धात्वर्थत्वात् । जिनश्रियौ कृ. ष्णलक्ष्म्यौ यत्र विष्णोर्जलधिशयनत्वेन तत्र क्रीडा । अथवा स्फुरन्त्यो जिनो विष्णुस्तत्साहचर्याद्वार्धिपुत्रीत्वाद्वा लक्ष्मीश्च यत्र । समासान्तविधेरनित्यत्वान्न कः । 'उडुपरिषदि मध्यस्थायिशीतांशुलेखानुकरणपटुलक्ष्मीमक्षि लक्षीचकार' इति नैषधे । पश्चात्कर्मधारयः। पुनः किंभूतः । अगाधो महार्थतया अलब्धं मध्यमतलस्पृक् च मध्यं यस्य । पुनः किंभूतः । रसैः शान्तादिभिर्जलैश्च भासमानः । पुनः किंभूतः । समुद्यन्तः प्रकटीभवन्तः अभङ्गाः संपूर्णाः भङ्गा परमाणुप्रमुखानां श्राद्धव्रतादीनामेकद्वित्रिविधादयो भङ्गजालानि तरङ्गाश्च यत्र ॥
गणीन्दुना पाट्टरमा गणीन्दुः पट्टश्रिया च व्यतिभासते स्म । . निशा निशेशेन निशा निशेश इवापि शंभोः परिचारिचेताः ॥ १४ ॥
अनूचानचन्द्रेण सुधर्मखामिना पट्टरमा महावीरदेवपट्टलक्ष्मीस्तथा गणी साङ्गप्रवचनाधीतिनां मध्ये दीप्यमानत्वेन परमैश्वर्यभाक्त्वेन इन्दुश्चन्द्रः पट्टश्रिया वर्धमानखामिपलक्ष्म्या कृत्वा व्यतिभासते स्म परस्परं शोभते स्म । केनेव का । कया क इव । निशा निशे नेव । निशा निशेश इव यथा रात्रिश्चन्द्रमसा शोभते । यथा । निशा रात्र्या कृत्वा चन्द्रमा व्यतिभासते परस्परं राजते । ‘पद्दन्नोमास्हृनिश्' इति प्रक्रियोक्तसूत्रेण निशाया निश आदेशः । किंभूतो गणीन्दुः चन्द्रश्च । शंभोजिनस्येश्वरस्य च परिचरणशीलं सेवाहेवाकिस्वभावं चेतो मनो यस्य सः ॥ इति सुधर्माखामी ॥
यशःश्रियाधःकृतकुन्दकम्बुर्जम्बूकुमारोऽजनि तस्य पट्टे । लघोरपि स्वस्य यतोऽभिभूतिं पश्यन्हियादृश्य इव स्मरोऽभूत् ॥ १५ ॥ १. लेखकप्रमादपतितः.