________________
१५०
काव्यमाला।
पद्मशयः । अलुक्समासोऽयम् । अभूत् बभूवेव । किं कुर्वाण: पद्मनाभः । अबुध्यमानो न जानन् । अपश्यनित्यर्थः । कं कर्मतापन्नम् । अम्बुनिधिमर्थात् क्षीरसमुद्रम् । किंभूतम् । खस्यात्मनः शय्यां पर्यकं तत्र शायित्वात् अब्धिशयनत्वेन विष्णोः । कस्यां स. स्याम् । एतस्य यशोभद्रसूरेः यशः प्रसरत्कीर्तिनिकरः स एव क्षीरधिर्दुग्धवारिधिस्तस्य नीरपूराणि पयःप्रवाहास्तैः परितः सर्वत्रापि संपूरितायां निर्झरभृतायां धवलीकृताया त्रिलोक्यां सत्याम् ॥ इति यशोभद्रसूरिः ॥
संभूतिपूर्वो विजयो गुरुस्तत्पढें श्रिया पल्लवयांचकार । कदम्बजम्बूकुटजावनीजकुञ्ज नभोम्भोद इवाम्बुवृष्ट्या ॥ २६ ॥
संभूतिरिति शब्दः पूर्व यस तादृशो विजय एतावता संभूतिविजयनामा गुरुः सूरिस्तस्य यशोभद्रसूरेः पटं श्रिया खशोभया पल्लवयांचकार अलंकारयति स्म । क इव । नभोम्भोद इव । यथा श्रावणमेघ: अम्बुवृष्ट्या जलवणेन कृत्वा कदम्बा धाराकदम्बा नीपाः, जम्बूः श्यामफलाः, कुटजा गिरिमल्लिकाः 'कुडउ' इति प्रसिद्धाः, तं एवावनीजा वृक्षाः तेषां कुझं काननं पल्लवयति किशलयकलितं कुरुते : पूर्वोत्तात्रयोऽपि तरवः प्रावृष्येव पुष्यन्ति ॥
संहर्षरोषात्खजिघांसुमेतत्प्रतापमार्तण्डमवेक्ष्य साक्षात् । युयुत्सया हैहयवत्सहस्रं सहस्रभासेव करा ध्रियन्ते ॥ २७ ॥ सहस्रभासा सूर्येण सहस्रं दशशती करा हस्ताः किरणाश्च ध्रियन्ते धार्यन्ते । उत्प्रेश्यते-युयुत्सया योद्भुमिच्छयेव । किंवत् हैहेयवत् । यथा कार्तवीर्यनृपो युयुत्सगा सहस्रसंख्यान करान् पाणीन् धत्ते । 'संग्रामनिर्विष्टसहस्रबाहुर्बभूव योगी किल कार्तवीर्यः' इति रघुवंशे । तथा 'बाहुसहस्रार्जुन: पिशुनः' इति सूक्ते च । हैहयस्तु कार्तवीर्यः दो:सहस्रभृदर्जुनः' इति हैम्याम् । किं कृत्वा । एतस्य संभूतिविजयस्य प्रताप एव चण्डत्वान्मार्तण्डो भानुतं साक्षात्प्रत्यक्षमवेक्ष्य विलोक्य । किंभूतम् । संहपेण स्पर्धया कृत्वा यो रोषः क्रोधस्तस्मात्खमात्मानं जिघांसुं हन्तुं कान्तम् ॥ इति संभूतिविजयः॥
स तत्सतीोऽजनि भद्रबाहुः सूरिः समग्रागमपारदृश्वा । दशाश्रुतस्कन्धत उद्दधार वज्राकराद्वज्रमिवात्र कल्पम् ॥ २८ ॥ स प्रसिद्धो बाहुभद्रनामा सूरिस्तस्य संभूतिविजयस्य सतीर्थ्य एकगुरुभ्राता । 'सतीास्त्वेकगुरवः' इति हैम्याम् । किंभूतः । समग्राणां सर्वेषामङ्गोपाङ्गपूर्वादीनामागमानां पारं दृष्टवान् इति पारदृश्वा पारगामी चतुर्दशपूर्वधरत्वात् । स कः । यो भगवान् अत्र पञ्चमारके कलियुगे वा दशाश्रुतस्कन्धतः प्रत्याख्यानाभिधनवमपूर्वदशाश्रुतस्त. न्धाध्ययनतः कल्पं कल्पनाम सूत्रमुद्दधार उद्धृतवान् । कमिव । वज्रमिव । यथा कश्चिद्भाग्यवान् वज्राणां हीरकाणामाकरात् खनेर्वजं रत्नमुख्यमुद्धरति ॥