SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १४३ ४ सर्गः] हीरसौभाग्यम् । सिद्धार्थभूकान्तसुतो जिनानामपश्चिमोऽजायत पश्चिमोऽपि । शशी व्यभात्पकिलपङ्कजास्यकादम्बवद्यस्य यशःसुधाब्धौ ॥ ४ ॥ सिद्धार्थनामा भूकान्तः पृथ्वीपतिः तस्य सुतो नन्दनः महावीरदेवः सः अजायत जज्ञे । किंभूतः । पश्चिमोऽपि सन् जिनानां सामान्यकेवलिनी मध्ये अपश्चिम आयः । तत्तीर्थे प्रथमं वीरस्यैव केवलज्ञानोत्पन्नत्वेन । 'अपश्चिमो विपश्चिताम्' इति चम्पूकथायाम् । स कः । यस्य यशःसुधाब्धौ कीर्तिरेव सुधाब्धिः क्षीरसमुद्रस्तस्मिन् शशी चन्द्रः । पङ्किलं. कर्दमाकलितं पङ्कजं कमलमास्ये मुखे यस्यैवंविधकादम्बवत् राजहंस इव व्यभात् भाति स्म ॥ बाल्येऽपि हेमाद्रिरकम्पि येन प्रभञ्जनेनेव निकेतकेतुः । ___ श्रीद्वादशाङ्गी च यतः प्रवृत्ता गुरोगिरीणामिव जमुकन्या ॥ ५ ॥ येन महावीरेण बाल्ये शैशवेऽपि जातमात्रावस्थायामपि जन्माभिषेकसमये हेमादि. मेरुरकम्पि कम्पितः । णिगन्तोऽयं प्रयोगः । केनेव । प्रभञ्जनेनेव । यथा वायुना निकेतकेतुः । 'निकेतं परितो भ्रमन्' इति पाण्डवचरित्रे । गृहोपरिध्वजः कम्प्यते । च पुनर्यतो महावीरात् द्वादशाङ्गी गणिपिटकं प्रवृत्ता प्रावर्तत । कस्मादिव । गुरोरिव यथा गिरीणां गुरोहिमाचलात् जझुकन्या गङ्गा प्रवर्तते स्म ॥ इति महावीरः ॥ एकादशासन्गणधारिधुर्याः श्रीइन्द्रभूतिप्रमुखा अमुष्य । आर्योपयामे पुनरसप्तमूर्ति रुद्राः स्मरं हन्तुमिवेहमानाः ॥ ६ ॥ अमुष्य महावीरदेवस्य श्रिया शोभया लब्धिलक्ष्म्या वा युक्ता इन्द्रभूतिर्गौतमनामा प्रमुख आद्यो येषां तादृशा एकादशसंख्याकाः इन्द्रभूति-असिभूति-वायुभूति-व्यक्तसुधर्मखामि-मण्डित-मौर्यपुत्र अकम्पित अचलभ्राता-मतार्य-प्रभासाभिधाना गणधारिणां गच्छं बिभ्रतीति गणधारिणस्तेषां मध्ये धुर्या धुरंधराः आसन् जज्ञिरे । उत्प्रेक्ष्यतेपुनर्द्वितीयवारं स्मरं मदनं निहन्तुं जीविताद्यपरोपयितुमीहमानाः काकुन्तः । एकादशसंख्याका रुद्रा इव प्रकटीभूता इत्यर्थः । किंभूतं स्मरम् । पूर्वशरीरापेक्षया दाहानन्तरमपरवारमार्यायाः पार्वत्या उपयामे पाणिग्रहणसमये आप्ताः स्मरोपरि प्रसन्नी. भवनविज्ञप्तिकारि सुराननुगृह्य प्रसन्नीभूतभूतपतिवरात् लब्ध्वा मूर्तिः शरीरं येन तम् ॥ बभूव मुख्यो वसुभूतिसूनुस्तेषां गणीनामिह गौतमाह्वः । यो वनभावं न बभार पृथ्वीसुतोऽपि नो विष्णुपदावलम्बी ॥ ७ ॥ इह जगति महावीरशिष्येषु वा तेषामेकादशानां गणीनां गणधारिणां मध्ये वसुभू. तिनाम्नो ब्राह्मणस्य सूनुः पुत्रो मुख्यः विविधलब्धिसंपन्नत्वात्प्रकृष्टः अथ वा मुखे आदी भवो मुख्यः प्रथमः सर्वेषां पूर्व दीक्षितत्वात् प्रथमगणधरत्वाद्वा बभूव । किंभूतो वसुभूतिसूनुः । गौतम इत्याहा नाम यस्य सः । यो गौतमः पृथ्व्या ब्राह्मण्याः क्षितेश्च सु.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy