________________
१४४
कायमाला।
तोऽपि पुत्रोऽपि सन् वक्रभाषं कुटिलतभावं नवभार वने म्म । पुनर्विष्णोर्नारायणस्य पदं चरणमालम्बते आश्रयते सेवते इत्येवंशीलोऽपि न नैव विष्णुभक्तः । महावीरगगधारित्वात् । अथ च पृथिव्याः सुतो मङ्गलनामा ग्रहः स तु क्रमावं वक्रनामत्वम् । 'आरो वक्रो लोहिताङ्गो मङ्गलोकारकः कुजः' इति मङ्गलनामानि हैम्याम् । अथ च विष्णुपदमाकाशमवलम्बते भजते इत्येवंशीलोऽस्ति । ज्योतिश्चक्रस्य नभःस्थत्वात् ॥
यत्पाणिपद्मः स पुनर्भवोऽपि दत्ते नतानामपुनर्भवं यत् ।
शिष्यीकृता येन भवं विहाय शिवं श्रयन्ते च तदत्र चित्रम् ॥८॥ तत्प्रसिद्धमत्र जगति चित्रं महदाश्चर्य दृश्यते । तत्किम् । यत् यस्य गौतमस्वामिनः पाणिपभः करकमलः सह पुनर्द्वितीयवारं भवनमुत्पत्तिस्तेन सह वर्तते . यस्तादृशोऽपि सन् न विद्यते पुनरन्यवारं भवोऽवतारों यत्र तं नतानां प्रणमजनानां दत्ते विश्राणयति । तत्त्वतस्तु कामामुशकलितो मोक्षं ददाति । 'कामा१शो महाराजः करजो नखरो नखः । करशको भुजाकण्टः पुनर्भवपुनर्नवौ ॥' इति हैम्याम् । तथा तत्रैव 'महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः' इति च । पुनर्थेन गीतमेन शिष्यीकृताः खविनेया विहिताः सन्तो नरा भवमीश्वरं विहाय त्यक्त्वा शिवं शंभुं श्रयन्ते भजन्ते भवः स एव शिवश्च । तत्त्वतस्तु भवं संसारं त्यक्त्वा शिवं मोक्षं यान्ति गीतमदीक्षितानां सर्वेषामपि केवलज्ञानोत्पादात् ॥
सूर्यस्य रश्मीनवलम्ब्य वज्रावलम्बरश्मीनिवयः शयाभ्याम् ।
नन्तुं जिनानार्षभिक्कृप्तमूर्तीनष्टापदो:धरमारुरोह ॥ ९ ॥ यो गौतमस्खामी खलब्ध्या योऽष्टापदमारोहति सोऽवश्यं तद्भवे एव' सिद्धिगामीति देवयाचं निशम्य प्रश्नानन्तरं भगवतापि तथैव प्रतिपादिते भगवदाज्ञादानपूर्वकमष्टापदनासानमुर्वीधर कैलाशशैलमारुरोहाधिरूढवान् चढितः । किं कृत्वा । अवलम्ब्य आश्रित्य । काभ्याम् । शयाभ्यां वहस्ताभ्याम् । कान् । सूर्यस्य रश्मीन् किरणान् । लूता उर्णनाभः कोलिकस्तस्यास्याद्वदनाद्विनिर्गता जालतन्तवः तान् वा । 'तपःकृशा. शास्तं शैलमारोढुं न वयं क्षमाः । चढिष्यति कथं प्रौढ देहोऽयं गजराजवत् ॥ पश्यत्सु. तेषु मार्तण्डकरानालम्ब्य गौतमः । गणभृन्निजलन्स्यैवाष्टापदोवं ययौ ध्रुवम् ॥' इति ऋ. षिमण्डलवृत्तौ । 'सूर्यस्यांशून् समाश्रित्य तेषामुत्पदयतामपि । स गरुत्मानिवोडीय ययौ मस गिरेः शिरः ॥ इति वृन्दारवृत्तौ । रविकिरणावलम्बनम् । तथा 'भयवं गोयमो ज. झाचारणलद्वीपलूतापुडगंमिनिस्साए उर्दुप्पयइ जाव ते पलायन्ति' इत्यावश्यकद्वाविंशतिसहख्याम् । मलयगिरिवृत्तावप्ययमेव पाठः । लूतातन्त्ववलम्बनमिति पाठद्वयमपि शास्त्रानुसारि । अथ प्रस्तुते । उत्प्रेक्ष्यते-वज्रस्य वज्ररत्नविनिर्मितानित्यर्थः । अवलम्बार्थमालम्बनकृते रश्मीन् गुणांन् रज्जूरिव । किमर्थमारुरोह - नन्तुं नमस्कर्तुम् । कान् ! जिनांश्चतुर्विंशतितीर्थकृतः । किंभूतान् । ऋषभस्यापसमाभिर्भरतचक्रवर्ती तेन