________________
१४२
काव्यमाला।
चतुर्थः सर्गः। अथो पुरासन्भरते वृषाङ्कमुखाश्चतुर्विंशतितीर्थनाथाः ।
बाह्यान्यबाह्यानि तमांसि हन्तुं कृतद्विरूपा इव भानुमन्तः ॥ १॥ अथेति चतुर्थसर्गप्रारम्भे अथवा श्रीविजयदानसूरिसमागमनप्रक्रमसमये तत्पूर्व पट्टावलीप्रकटनप्रस्तावे पुरा पूर्व तृतीयारकपर्यन्तचतुर्थारकमध्ये भरते भरतनाम्नि क्षेत्रे वृषाङ्कप्रमुखा ऋषभदेवादिकाः । यथा ऋषभ-अजित-शंभव-अभिनन्दन-सुमति-पद्मप्रभ.. सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमल-अनन्त-धर्म-शान्ति-कुन्थु-अरमल्लि मुनिसुव्रत नमि-नेमि-पार्श्व-वर्धमान-नामानश्चतुर्विंशतिसंख्याकास्तीर्थनाथा जिनेन्द्रा आसन्नभूवन् । उत्प्रेक्ष्यते-कृते द्वे द्वे मूर्ती रूपे यैरेतावता चतुर्विशतिरूपा द्वादश भानुमन्तः सूर्या इव द्वादशानां द्विरं गणनया चतुर्विशतिः स्यात् । किं कर्तुम् । बाह्यानि बहिर्लोकान्तर्वतीनि अबायानि प्राणिनामन्तरङ्गवतीनि हृदयस्थानि तमांस्यन्धकाराणि अज्ञानानि पापानि वा हन्तुं व्यापादयितुं भानवो हि नामभिर्ध्वान्तारातयः ॥
इक्ष्वाकुवंशाम्बुधिशीतभासां द्वाविंशतिस्तीर्थकृतां बभूव ।
यया तमःपङ्कमपास्य पन्थाः प्राकाशि सिद्धेः शरदेव विश्वे ॥२॥ तेषां जिनानां मध्ये इत्यध्याहारः । ऋषभदेवस्य शक्रप्राभृतानीतेक्षुयष्टेराखादनाशयेन शक्रप्रतिष्ठापितेक्ष्वाकुवंशः स एवाम्बुधिः समुद्रस्तत्र क्षीरभासश्चन्द्रास्तादृशानां तीर्थकृतां जिनानां द्वाविंशतिाभ्यामधिका विंशतिर्बभूव जाता द्वाविंशतिजिनेन्द्रा इक्ष्वाकुकुले समुत्पन्ना इत्यर्थः । यया जिनद्वाविंशत्या विश्वे जगति सिद्धेमोक्षस्य पन्था मार्गः प्राकाशि प्रकाशितः प्रकटीकृतः । किं कृत्वा । तमोऽज्ञानं पापं वा तदेव मालिन्यकारित्वात्पकं कर्दमम् अपास्य निराकृत्य । कयेव । शरदेव । यथा घनात्ययेन पy विशोष्य पन्थाः प्रकटः क्रियते ॥
बभूवतुर्ती भुवनप्रदीपौ जिनौ यदूनां पुनरन्ववाये।
अरिष्टनेमिर्मुनिसुव्रतश्च स्फूर्जद्भुजाविन्द्रियवेश्मनीव ॥ ३ ॥ पुन जिनौ तीर्थकरौ यदूनां यादवानामन्ववाये वंशे बभूवतुर्जाती । किंभूतौ जिनौ । भुवनेषु त्रिषु सप्तसु वा चतुर्दशसु वा एकविंशतौ वा । 'भुवनानि निवनीयात् त्रीणि सप्त चतुर्दश' इति वाग्भटालंकारे । वृत्तौ एकविंशतिरपि इति वचनात् । तत्प्र. मितेषु जगत्सु प्रकाशकारकत्वेन प्रदीपाविव प्रदीपो । द्वौ को । एक: अरिष्टनेमि विं शतितमस्तीर्थनाथः । च पुनरपरो मुनिसुव्रतनामा विंशतितमस्तीर्थकरः । पदयोजनया कथंचित्पश्चानुपूर्व्या समानीतौ स्त: । काविव । स्फूर्ज जाविव । यथा ऊर्जखली दोदण्डी इन्द्रियवेश्मनि शरीरे स्याताम् । अत्र हेमाचार्योक्तस्य इन्द्रियायतनमिति परपर्यायस्य परावर्तनम् । 'जुहाव यन्मन्दिरमिन्द्रियाणाम्' इति नैषधोक्तवचनादिदमपि । इति जिनाः ॥