________________
सर्गः] . हीरसौभाग्यम् !
१४१ ___ पदे पदे यत्पुरकौतुकानि निरीक्षमाणः क्षणदाकरास्यः । • निजैर्गुणैर्हार इवैष हीरो व्यधत्त वासं हृदये मनखिनाम् ॥१३३ ॥
एष कुंरानार्थीनन्दनो हीरो निजैरात्मीयैर्गुणैः सौन्दर्यादिभिर्मनस्विनां महतां चतुराणां हृदये मनसि वासं वसतिं व्यधत्त चकार । क इव । हार इव । यथा मुक्ताकलापो गुणैस्तन्तुभिः सूत्रप्रोतत्वेन हारस्य मनखिनां हृदये वक्षसि । 'हृदयं मनो वक्षश्व' इत्यनेकार्थः । परस्य हृदये लग्नं न पूर्णयति यच्छिरः' इति चम्पूकथायाम् । काव्यं पर• त्यान्य प्राज्ञस्य हृदये लग्नं चमत्कृतं बाणे परस्य वैरिणो हृदये वक्षसि लग्नं मर्मप्रविष्टमिति तट्रिपनकम् । वासं स्थानं कुरुते : किंभूतः हीर: । क्षणदाकरश्चन्द्रस्तद्वदाननं मुखं यस्य संपूर्णचन्द्रवदन: । किं कुर्बाणः । पदे पदे त्याने स्थाने यत्पुरस्याणहिल. वाटकपत्तनस्य कौतुकान्याश्चर्चाणि निरीक्षमाणः विलोकमानः ॥
हरिरिव गिरिकुने मानसैर्मानसौका
इव करकमले वा श्रीपतेः पाञ्चजन्यः । मुररिपुरिव वांधों स स्वसुर्धाम्नि तिष्ठ
न्कमपि कलयति स्म श्रीभरं शावसिंहः ॥ १३४ ॥ स हीरनामा शावेपु कुमारेषु शौर्यस्फूर्त्या सिंह इव सिंहः पञ्चानुनः श्रीभरं शोभातिशयं कलयति स्म दधार । किं कुर्वन् । खसुवृद्धभगिन्या विमलानाम्न्या धाम्नि मन्दिरे तिष्ठन् वसन् स्थिति कुर्वन् । क इव । हरिरिव । यथा केसरी गिरेः पर्वतस्य कुजे गहरे वने वा निवसति । पुनः क इव । मानसौका इव । यथा राजहंसो मानसनामनि सरसि स्थिति विधत्ते । वा पुनः क इव । पाञ्चजन्य इव । यथा देवतादत्तो हरिणैव वादनयोग्यः पाश्चजन्यनामा शङ्खः श्रीपतेर्नारायणस्य करकमले पाणिपञ तिष्ठति । अत्र इवशब्दो लालाघण्टावदुभयत्र योज्यः । पुनः क इव । मुररिपुरिव । यथा नारायणो वाधों अर्थात् क्षीरसमुद्रे वसतिं विधत्ते ॥ - यं प्रासूत शिवाहसाधुमघवा सौभाग्यदेवी पुनः
___ श्रीमत्कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । .. तबाहीक्रमसेविदेवविमलव्यावर्णिते हीरयु
क्सौभाग्याभिधहीरसूरिचरिते सर्गस्तृतीयोऽभवत् ॥ १३५ ॥ यं प्रासूतेति । देवविमलगणिविरचिते हीरसौभाग्यनाम्नि महाकाव्ये हीरविजयसू
रीश्वरचरित्रे तृतीयः सर्गः ॥
इति पण्डितदेवविमलगणिविरचितायां खोपज्ञहीरसौभाग्यनामकाव्यवृत्ता गर्भधारण. दोहदगर्भसमयलक्षणाविर्भावनजन्मजन्मपत्रिकाजन्ममहोत्सवबालक्रीडापठनसर्वाङ्गलक्षणमातृपितृपरलोकगमनपत्तनस्थभगिनीगृहागमवर्णनो नाम तृतीयः सर्गः ॥