SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। कादम्बिनीव सलिलैः सुरशैलशृङ्गं हर्षाश्रुभिः स्वसहजं स्नपयत्यमन्दम् । संबिभ्रतं कनककेतककान्तकायं तं खागतादि भगिनी परिपृच्छति स्म ॥ १३०॥ भगिनी विमला तं खसहजं निजभ्रातरं प्रति स्वागतादि सुखागमनकुशलप्रश्नालापप्रमुखं परिपृच्छति स्म प्रश्नयामास । तं किं कुर्वन्तम् । कनककेतकवत् काश्चनक्रकचच्छद इव कान्तं मनोज्ञं कायं गाङ्गेयगौरागयष्टी संबिभ्रतं धारयन्तम् । भगिनी किं कु.. चंती । अमन्दं बहु यथा हर्षाश्रुभिः प्रमोदनिष्पतन्नयनबाष्पपानीयैः लपयन्तीव इति . गर्भोत्प्रेक्षा । केव । कादम्बिनीव । यथा मेघमाला सलिलैनिजजलैः सुरशैलस्य मेरोः महं शिखरं स्वपयति । 'चामीकराद्रिशिरसीव नवाम्बुवाहम्' इति कल्याणमन्दिरसोत्रे मेरावपि मेघसद्भावः ॥ विज्ञातपूर्वजननीजनकप्रवृत्तेः . . प्रेम्णा निगद्य कुशलादिकमात्मजामेः । विद्याभृतां कुमरवत्कलधौतकान्तं वैताढ्यशृङ्गमयमासनमध्युवास ॥ १३१ ॥ अयं कुमारः आसनं विष्टरमध्युवास उपविशति स्म । किंभूतमासनम् । कलधौतेन रजतेन काश्चनेन वा कान्तं मनोज्ञम् । तद्धटितमित्यर्थः । 'कलधौतं स्वर्णरूप्ययोः' इत्यने. कार्थः । किंवत् । विद्याभृतां विद्याधराणां कुमरवत् यथा खेचराणां कुमारो रूप्यमयं वैताव्यस्य भरतादिक्षेत्रोभयभागकारिमध्यवर्तिपर्वतस्य शृङ्गं . शिखरमधिवसति । किं कृत्वा । कुशलप्रमुखखवृत्तान्तमात्मनः स्वस्य जामेर्भगिन्या: प्रेम्णा स्नेहेन निगद्य क. थयित्वा । किंभूताया भगिन्याः । विज्ञातपूर्वा पूर्वमेवावबुद्धा जननी माता जनकः पिता तयोः प्रवृत्तिः परलोकगमनवार्ता यया तस्याः ॥ अनेन गोष्ठीमनुतिष्ठतात्मजाममनोव्याहृतिवैदुषीभिः । अनन्यवृत्ति क्रियते स्म विज्ञै रसातिरेकै रसिकस्य यद्वत् ॥ १३२॥ अनेन हीरकुमारेण आत्मजामेनिजभगिन्या मनश्चित्तमनन्यवृत्ति न विद्यते अन्या परा वृत्तिापारो यस्य । अथ वा न विद्यते अन्यस्मिन् स्थानके वर्तनं श्रवणेक्षणादिलक्षणं यस्य यत्र वा तत् । एकतानमित्यर्थः । क्रियते स्म । काभिः । व्याहृतिभिर्वदुषीभिर्वचनचातुरीभिः । अनेन किं कुर्वता । गोष्टीमात्मीयामन्यां वा वार्तामनुतिष्ठता विद. धता । कैरिव । पण्डितैः । शृङ्गारादीनां नवानां रसानामतिरेकैराधिक्यैरतिशयैश्च कृत्वा रसिकस्य सर्वरसवेत्तुरतिचातुरीभाजः मनोऽनन्यव्यापार विधीयते ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy