________________
३ सर्गः ]
हीरसौभाग्यम् ।
१३९
मार्गे पृथ्वीपथे प्रतस्थे प्रचलितः । किं कृत्वा । तं प्राक् सेवकेनानायित पारियानिकम - ध्वरथमधिरुह्य अध्यास्य । किंभूतं पारियानिकम् । नभखन्तं वायुम् अर्थाद्वायुवेगमतिपतति अतिक्रामतीत्येवंशीलो वातादप्यधिको रयो वेगो ययोस्तादृशाभ्यामश्वाभ्यां तुरङ्गाभ्यां वायम् वहनयोग्यम् । पुनः किंभूतम् । सारथिना सूतेन सनाथं सहितम् । पुनः किंभूतम् । हैमं स्वर्णमयम् । क इव । पाथोजपाणिरिव । यथा भाखान् सुवर्णसंबन्धिनं स्यन्दनमाश्रित्य नाकिपथे गगने प्रतिष्टते । सूर्यरथस्यापि विशेषणानि वायुरंहो विजयि वेगवाजि वहनीयं काश्चनमय मरुणसारथियुक्तं च पाथोजे कोकनदे इवारुणी मृदुलौ च सुकुमारौ पाणी हस्तौ यस्येति कुमारस्यापि विशेषणम् ॥
कालं कियन्तमुदयान्तरितं तपस्या
साम्राज्यसंग्रहविधौ प्रविलम्बमानः । संप्राप्य पत्तनमसौ मुदितः स्वजामे
श्चौलुक्यवद्भवनभूमिमलंचकार ॥
१२८ ॥
1
असौ हीरकुमारः पत्तनमगहिल्लपुरं संप्राप्य आसाद्य मुदितो हृष्टः सन् खजागे: स्वभगिन्याः भवनभूमिं गृहभूमिमलंचकार भूषयति स्म । किंवत् । चौलुक्यवत् । यथा कुमारपालुः पत्तनमागत्य प्रमुदितः खभगिन्या गेहमलंकृतवान् । किं कुर्वाणः । प्रविलम्बमान: प्रविलम्बं विदधानः कालक्षेपं निर्मिमाणः । कं कर्मतापन्नम् । कियत्परिमाणमस्येति कियान् तं क्रियन्तं कालं कियत्समयं यावत् किंकालम् । उदयः सूरिपदलक्षणो महोदयः अन्तरितः अन्तरं व्यवधानं संजातमत्रेत्यन्तरितः । कस्मिन् । तपस्या दीक्षा सैव साम्राज्यं सकललोकैश्वर्ये तस्य संग्रह उपादानं तस्य विधौ प्रकारे । चौलु• क्यस्यापि गुर्जरमण्डलराज्यसंग्रहे ॥
तं जङ्गमं त्रिदशसालमिव स्वपुण्यप्राग्भारमङ्गिनमुतागतमात्मधानि ।
दृष्ट्या निवातसरसीजसगर्भया खं
बन्धुं निपीय विमला मुमुदे हृदन्तः ॥ १२९ ॥
तं हीरकुमारं स्वबन्धुं निजसहोदरं दृष्ट्या नयनेन निपीय सादरमवलोक्य विमला विजयसिंहमहेभ्य महिला हृदन्तर्मनोमध्ये मुमुदे जहर्ष प्रीता । किंभूतया दृष्ट्या । निवातं वातरहितं यत्सरसीजं पद्मं तस्य सगर्भया सदृशया सहोदरया वा । 'निवातपद्मस्तिमितेन चक्षुषा' इति रघुवंशे । तं किंभूतम् । आत्मधानि स्वगृहे विमलामन्दिरे समागतम् । उत्प्रेक्ष्यते - जङ्गमं प्रचलन्तं त्रिदशसालं कल्पवृक्षमिव । उत अथवा अङ्गिनं मूर्तिमन्तं स्वपुण्यत्य निजसुकृतस्य प्राग्भारमतिशयमिव ॥