________________
१३८
काव्यमाला।
अथानन्तरं कदापि कस्मिन्नपि समये असौ वर्ण्यमानः महेभ्यस्य कुंराव्यवहारिण: कलभः कुमारः । इभाद्गजाद्भव इभ्यः कलभः यथा कुले भवः कुल्यस्तथायमपीति । वि. मलां नानी निजभगिनी मिलितुमुत्कण्ठित उत्सुको जज्ञे जातः । किंवत् । जयवत् । यथा जयो वासवसूनुः जयन्तीं खजामि शक्रपुत्री मिलितुमुत्कण्ठावान् भवति । कि कृत्वा। चिरस्य चिरकालेन शोकं प्रेमबन्धाजातं परितापं निरस्य त्यक्त्वा । शोकहेतुमाहकिं कृत्वा । कृत्वा विधाय । किम् । और्वदेहिकं परलोकगमन दिवसे दानजलाअलिप्रमुखम् । कयोः । पित्रोः स्वजननीजनकयोः । कथम् । सह । कैः । वंश्यैर्गोत्रिभिः ।' किंभूतैः । निजैरात्मीयैः । केन । विधिना यथोक्तलोकप्रकारेण । असो किंभूतः । विधिमाचारं जानातीति विधिज्ञः । पित्रोः किं कुर्वतोः । समाधि धर्मध्यानं भजतोः सेवमानयोः । पुनः किंभूतयोः । गंतवतोः प्राप्तवतोः । कम् । दृग्गोचरं नयनविषयम् । कासाम् । त्रिदशानां देवानां पद्मदृशां स्त्रीणां देवाङ्गनानाम् । खर्गतयोरित्यर्थः । केन कंमेण । आयुःपर्यन्तसमयपरिपाट्या । उत्प्रेक्ष्यते-सुरसद्मनि देवलोके विलसितुं क्रीडितुं सोत्कण्ठयोः सह उत्कण्ठया वर्तेते यौ तौ तादृशयोरिव । औत्सुक्ययुक्तयोरित्यर्थः । किं कृत्वा । अवनीवलये भूमण्डले विलासं भोगोपभीगादिक्रीडां निर्माय । कथम् । यथेच्छं खाभिलाषपूरणपर्यन्तम् । कुमारावस्थायामपि तस्य शौण्डीर्यातिशयं दर्शयितुं कलभशब्दप्रहणम् । कलभस्त्रिंशदब्दकः ॥
गन्तुं ततः स्पृहयता प्रति पत्तनं स्व
भृत्येन तेन सतुरङ्गयुगः शताङ्गः । आनाय्यते स्म नमुचेर्दमनेन जम्बू-
द्वीपं विमानमिव पालकनिर्जरेण ॥ १२६ ॥ ततो भगिनीमिलनोत्कण्ठानन्तरं तेन हीरकुमारेण का स्वभृत्येन निजसेवफेन कृत्वा शताङ्गो रथ आनाय्यते स्म आनायितः । किंभूतः शताङ्गः । सह तुरङ्गयोरश्वयोर्युगेन युगलेन वर्तते यः सः । तेन किं कुर्वता । पत्तनमणहिल्लनाम पुटभेदनं गन्तुं प्रस्थातुं स्पृहयता इच्छता । केनेव । नमुचेर्दमनेनेव । यथा नमुचिनामा दैत्यविशेषस्तस्य हत्रा पुरंदरेण जिनेन्द्राणां जन्मादिकल्याणकेषु महोत्सवकरणार्थी जम्बूद्वीपं प्रति गन्तुमिच्छता पालकनाम्ना निर्जरेण पालकाख्यं विमानमानाय्यते ॥
तं पारियानिकमसावधिरुह्य भूमी___मार्गे नभस्वदतिपातिरथाश्ववाह्यम् । हैमं शताङ्गमथ सारथिना सनाथं
पाथोजपाणिरिव नाकिपथे प्रतस्थे ॥ १२७ ॥ अथ जामिमिलनोत्कण्ठया अनुसेवकपार्श्वे रथानयनानन्तरम् असौ कुमारः भूमी.