SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् । कालक्रमेण परिवर्तमसौ दिनानां श्रीमत्कुमारमघवा गमयांबभूव ॥ १२२ ॥ असौ हीरनामा श्रीमत्सु धनाढ्येषु शोभावत्सु वा कुमारेषु अपरिगृहीतकलत्रेषु मघवा सर्वोत्कृष्टविभूत्याधिक्यादिन्द्रः कालक्रमेण समयपरिपाट्या दिनानां दिवसानां परिवर्ते क्षेपम् । अतिक्रमणमित्यर्थः । गमयांबभूव अतिवाहयति स्म । वासरानतिक्रामति स्मेत्यर्थः । किं कुर्वन् । क्रीडन् खेलन् नानाविधबाललीलां कलयन् । कथम् । सह । कैः सह । पौराङ्गजैर्नागरिककुमारैः । किंभूतैः । वयो यादृक्षं हीरकुमारस्य वयः बायशेषरूपं तथा विभवो द्रव्यं तयोरनुरूपैः कथंचित्सदृशैः । क इव । जयन्त इव । यथा पुरंदरनन्दनो जयन्तः यज्ञभुजां देवानां कुमारैः पुत्रैः समं क्रीडति ॥ तस्यानुजो गजगतेः शतकोटिपाणेः ३ सर्गः] श्रीपाल इत्यजनि विष्णुरिवाद्रिदस्योः । द्वे अग्रजे . स्म भवतः पुनरस्य जामी राणी परा च विमला कमलानुरूपे ॥ १२३ ॥ तस्य हीरकुमारस्य श्रीपाल इति नाम्ना अनुजो लघुभ्राता अजनि संजातः । तस्य किंभूतस्य । गजगतेः गजवन्मत्तगजराज इव गतिर्गमनं यस्य । पुनः किंभूतस्य । शतं शतशः कोटयः द्रव्याणां शतलक्षाः पाणी हस्ते यस्य शतैर्मिता वा कनककोटयो हस्तप्राप्यायस्य तदधिपत्वात् । कस्येव । अद्विदस्योरिव । यथा गजेनार्थादैरावणेन गमनं प्रस्थानं यस्य तथा शतकोटिर्वज्र पाणौ यस्य तादृशस्य अद्रिदस्यो: पर्वत रिपोरिन्द्रस्य 'विष्णुः कृष्णनामा लघुसहोदरो जज्ञे । किंभूतः । श्रियं लक्ष्मीं भर्तृत्वेन पालयतीति श्रीपालः । कुमारोऽप्याकृत्या वज्रपाणिः । पुनः कुमारस्य द्वे उभे जामी भगिन्यौ भवतः स्म संजाते । किंभूते । अग्रजे ज्येष्ठे वृद्धे । द्वे के । एका 'राणी', च पुनः परा अन्या विमला इति नाम्नी द्वे । किंभूते । कमलाया रूपश्रिया लक्ष्म्या अनुरूपे सदृशे ॥ कृत्वा विलासमवनीवलये यथेच्छं सोत्कण्ठयोर्विलसितुं सुरसद्मनीव । पित्रोरथ त्रिदशपद्मदृशां क्रमेण दृग्गोचरं गतवतोर्भजतोः समाधिम् ॥ १२४ ॥ कृत्यैौर्ध्वदेहिक मसौ विधिना विधिज्ञो वंश्यैर्निजैः जैः सह चिरस्य निरस्य शोकम् । उत्कः कदापि मिलितुं विमलां स्वजाि जज्ञे महेभ्यकलभो जयवज्जयन्तीम् ॥ १२५ ॥ १३७ १८
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy