________________
१३६
काव्यमाला।
खस्पर्धिनः शरभवप्रभुखानशेषा
न्कान्त्या विजित्य विजयीव निजप्रतीपान् । स व्यानशे विस्मरैः स्वयशोभिराशा
देशान्मिलत्परिमलैरिव पुष्पकालः ॥ १२० ॥ स हीरकुमारः विममरैः प्रसरणशीलः खस्यात्मनो यशोभिः कीर्तिभिः आशादेशान् दिग्विभागान् व्यानशे व्याप्नोति स्म । क इव । पुष्पकाल इव । यथा वसन्तुः मिलद्भिः परस्परं सङ्गं कुर्वद्भिः परिमलै: विकसितविविधविशेषजातितरुलतोल्लसत्कुसुमसंभवैरामोदैदिशां प्रदेशान् व्यश्नुते । किं कृत्वा । शरभवप्रमुखान् प्रतीपान् विजित्य पराजित्य । किंभूतान् । खेनात्मना सह श्रिया स्पर्धनशीलान् । क इव । विजयीव यथा जैत्रः । सर्वत्रापि जयवान् राजा समस्तान् प्रतिपक्षान् परिभूय विस्तरन् . खयशोभिः सर्वाशा व्याप्नोति ॥
भूषाशनिस्फुरितशक्रधनुः समुद्य
द्धाराङ्कितश्च जलमुक्श्रितजैनपादः । युक्तं यदा स सघनः कमलोदयेन
. चित्रं तदेव सुदिनेन यदत्र जज्ञे ॥ १२१॥ कमलोदयेन लभ्या अभ्युद्गमेन प्रादुर्भावेन घनो दृढ आस बभूव । अथ च कमलानां पानीयानामागमेन मेघो भवति । किंभूतः स मेघश्च । भूषाणामाभरणानामशनिभ्यो वज्ररत्नेभ्यः स्फुरितानि प्रकटीभूतानि शक्रधनूंषि इन्द्रचापचक्राणि यत्र । 'वृता विभूषा मणिरत्नकामुकैः' इति नैषधे । तथा 'एतान्युल्लसन्मणिमयूखमझरीरचितेन्द्रचापचक्राण्याभरणानि' इति चम्पूकथायाम् । भूषाशब्दो भूषणवाची । 'न भूष: यैषाधिचकास्ति किं तु सा' इति नैषधे । भूषणैः कृत्वा एषा अधिका न चकास्तीति तद्वत्तिः । तथा समुद्यता दीप्यमानेन हारेण मुक्ताकलापेन अङ्कितः कलितः । भूषायाः शोभायाः कारिणी अशनिर्वियुद्यत्र । तथा प्रकटीभूतमिन्द्रधनुर्यत्र । तथा समुद्यन्त्यो निष्पतन्यो धारा जलवृष्टयस्ताभिरङ्कितः। पुन: किंभूतः । डलयोरैक्यात् जडानज्ञान् अज्ञानभाजो वा मुञ्चन् दूरं त्यजन् । घनस्तु जलानि पानीयानि वर्षन् । पुनः किं. भूतः । श्रित आश्रितः जिनस्याहतो विष्णोश्च अयं जैनः पादश्चरणः तीर्थकृत्पादौ विष्णुपदं च येन एतद्युक्तमुक्तम् । परं तदेव चित्रमाश्चर्यमासीत् । यदत्र कुमारे सुदिनेन शासनदिवसेन जातं जज्ञे । घने मेघे तु दुर्दिनेन जायते ॥ इति कुमारगुणलक्षण. भूषणादिवर्णनम् ॥
क्रीडञ्जयन्त इव यज्ञभुजां कुमारैः
पौराङ्गजैः सह वयोविभवानुरूपैः ।