SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] हीरसौभाग्यम् । स्कन्धोपधेः ककुदढौकनकं विधाय यस्माच्छिशोर्गतिरशिक्षि ककुद्मतेव । अभ्यस्यते गतिरिवास्य गतानुकार कामेन विन्ध्यविपिनेष्वपि हास्तिकेन ॥ ११७ ॥ यस्मात् हीरनाम्नः शिशोः कुमारात्। उत्प्रेक्ष्यते-ककुद्मता वृषभेन गतिर्गमनमशिक्षि शिक्षितेव । किं कृत्वा । स्कन्धोपधेरैसकपटात्ककुदस्य नैचिकशिरसः ढोकनकं प्राभृतं विधाय कृत्वा । अपि पुनर्गजबजेन विन्ध्यस्य जलवालकशैलस्य विपिनेषु काननेषु गहरेषु वा। उत्प्रेक्ष्यते-गतिर्मन्थरगमनविलासः अभ्यस्यते अभ्यास इव क्रियते । शिक्ष्यते वा । किंभूतेन हास्तिकेन । अस्य कुमारस्य गतस्य विलासेन मन्थरत्वेन वा गमनस्य अनुकरणमनुकारः सदृशीभवनं तत्र कामोऽभिलाषो यस्य तेन ॥ . . लिप्ता द्रवैरिव विलीनहिरण्यराशेः - संकल्पितेव नवगन्धकलीदलैर्वा । किं रोचनाभिरथ वा रचिता स्मिताज गर्भंरिवाथ घटितास्य तनुश्चकाशे ॥ ११८ ॥ अस्य कुमारस्य तनुः शरीर चकाशे दिदीपे । उत्प्रेक्ष्यते-विलीनस्य खादिराङ्गाराग्निगालितस्य हिरण्यस्य राशेः कनकनिकरस्य द्रवै रसैः लिप्यते स्मेति लिप्ता दिग्धेव । वा अथवा नवैः सद्यस्कैनवीनैर्गन्धकलीदलैश्चम्पककलिकापत्रः। 'न षट्पदो गन्धकलीमजिप्रत्' इति सूक्त। संकल्पितेव विरचितेव । अथवा पक्षान्तरे रोचनाभिर्गोरोचननामगोपित्तविशेषद्रव्यः किमुत्प्रेक्ष्यते-रचिता निर्मितेव । अथ पुनः स्मिताब्जानां विकचकम. लानां गभ॑रन्तर्वतिसारदलैर्घटिता कल्पितेव ॥ इति हीरकुमारसर्वाङ्गवर्णनम् ॥ तस्मिन्पदं प्रविदधे गुणधोरणीभिः ___ सर्वाभिरर्णव इवार्णववर्णिनीभिः । आलोक्यते स्म च कदाचन नैषदोषै दोषातनैरिव तमोभिरभीश्रुमाली ॥ ११९ ॥ तस्मिन् हीरकुमारे सर्वाभिः समस्ताभिरीदार्यधैर्यादिगुणधोरणीभिः पदं स्थानं प्रवि. दधे कृतम् । कस्मिन्निव । अर्णव इव। यथा सर्वाभिरर्णववर्णिनीभिः समुद्रपत्नीभिनंदीमि. रणवे जलनिधौ पदं स्थानं प्रविधीयते । च पुनरेष कुमारः दोषैरपगुणः कदाचन क. स्मिन्नपि समये न आलोक्यते स्म न दृष्टः । क इव । अभीश्रुमालीव यथा भाखान् दोषातनै रात्रिजातैस्तमोभिरन्धकारै लोक्यते न प्रेक्ष्यते ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy