SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १३२ काव्यमाला। प्रामाण्यमस्य वहतो महतां सदस्य___प्रामाण्यमाश्रयदुरस्तदिहास्ति चित्रम् । श्रीवत्स उल्लसति तस्य पुनः स वक्षः . स्थायी गभीरिमविलोकनकौतुकीव ॥ १०९ ॥ इह जगति । तदिति कर्तृपदम् । चित्रमाश्चर्य विस्मयोऽस्ति यदस्य उरो हृदयमप्रा. माण्यं प्रमाणातीततामतिविशालतामनुपादेयतामाश्रयत्सेवते स्म । अस्य किं कुर्वतः । महतां महात्मनां सदसि सभायाम् । समूहे इत्यर्थः । 'उडुपरिषदः किं नाहत्वं निशः किमु नौचिती' इति नैषधे। परिषदशब्दः समूहवाची प्रामाण्यं यथार्थवादितां मुख्यतां वा य. दयं वक्त्याचरति । सन्मार्ग तदस्माकं महतां प्रमाण एवेति प्रमाणतां वहतो बिभ्रतः । पुनस्तस्य कुमारस्य श्रीवत्सः उत्तमपुरुषाणां हृदयमध्ये कश्चिदाकारविशेषः। उल्लसति शोभते। उत्प्रेक्ष्यते-स श्रीवत्सः गभीरिम्णः अर्थात्कुमारस्य गाम्भीर्यस्य विलोकने विभावने कौतुकं कौतूहलमस्त्यस्येति कृत्वा वक्षसि गाम्भीर्याश्रये हृदये तिष्ठत्येवंशीक: स्थायी बभूवेव ॥ सान्द्रीभवत्तनुविभाभरनिझरिण्याः , सावर्तशोण इव नाभिरमुष्य रेजे। . वक्षःस्थलेन विपुलेन सहाभ्यसूया माबिभ्रतीव कटिरप्यभवद्विशाला ॥ ११० ॥ अमुष्य कुमारस्य नाभिस्तुन्दकूपिका रेजे भाति स्म । उत्प्रेक्ष्यते-सान्द्रीभवनीरन्ध्रो जायमानो यस्तनोर्वपुषो विभाभरः कान्तिसमूहः स एव निर्झरिणी नदी तस्या: सहावतेन पयोविभ्रमविशेषेण युक्तः शोण: हद इव । अपि पुनरमुष्य कटिः श्रोणिविशाला विस्तीर्णा अभूभूव । उत्प्रेक्ष्यते-विपुलेन विशालेन वक्षःस्थलेन हृदयेन सह सार्धमभ्यसूयामीD बिभ्रती दधानेव ॥ कार्कश्यसंहृतिलघूकृतहस्तिहस्ता___ वूरू कृताविव शिशोर्नलिनासनेन । स्थम्भोपमो जिनमतावसथे स भावी स्थम्भोपमां किमिति तस्य बिभर्ति जङ्घा ॥ १११ ॥ नलिनासनेन वेधसा कार्कश्यस्य कठिनतायाः संहृत्या संहरणेनापनयनेन कृत्वा लघु अल्पो ह्रखौ कृतौ यौ हस्तिनः करिणः हस्तौ शुण्डादण्डौ । उत्प्रेक्षते-शिशोः कुमारस्य ऊरू सक्थिनी कृतौ निर्मिताविव । पुनस्तस्य कुमारस्य उत्प्रेक्ष्यते-इति हेतोः किमु जहा स्थम्भोपमा स्थूणासादृश्यं बिभर्ति । इति किम् ! यत्स हीरार्भः जिनमतमर्हच्छासनमेवा
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy