________________
१३१
३ सर्ग:
हीरसौभाग्यम् । लिलानि तैः परिपूर्ण सामस्त्येन पूरितं व्याप्तं वाहमूलं भुजकोटरः स एवालवालं स्था. नक तत्र विलसन्नाश्लिष्यन् । 'लस श्लेषणक्रीडनयोः' इति धातुः । अर्थात् प्रकटीभवन् यो भुजो वाहुः स एव गण्डि: प्रकाण्डं मूलात् शाखावधिप्रदेशः तं भजतीति । किं भूताः शाखाः । कामाङ्कुशेर्नखैः शालमानाः । उत्प्रेक्ष्यते-किसलयैः पल्लवैरिः । अत्र गर्भितोत्प्रेक्षा ॥
जानुस्पृशौ शिशुभुजौ विनियन्त्रणाय ।
पाशाविवाब्धिदुहितुस्तरलाशयायाः । हस्तौ समस्तकजराजतयाप्यमुष्या
धात्राक्षतैरिव यवैः समपूजिषाताम् ॥ १०७ ॥ शिशुभुजौ कुमारबाहू जानू ऊरुपर्वणि स्पृशत इति जानुप्रलम्बौ अभूताम् । उत्प्रेक्ष्यते-तरलश्चपल: आशयश्चित्तं खभावो वा यस्यास्तादृश्या अधिदुहितुर्लक्ष्म्या विनियन्त्रणाय विशेषेण बन्धनाय एकत्रावस्थिति निर्मापणाय पाशौ बन्धनग्रन्थी इव । एपि पुन: । अमुष्य कुमारस्य करी हस्ती धात्रा ब्रह्मणा अक्षतैरखण्डैर्यवैः समपूजिषाताम् अचिंताविव । समस्तानि सकलानि यानि कजानि कमला नि तेषां राजत्वेन खामितया आकृत्या तत्सेव्यत्वेन आधिपत्यम् ॥
वक्षःशिलाकलितमञ्जुलजातरूपो
नक्षत्रभूषिततनुश्च नभोगयुक्तः । . खःशाखिरुङ्महिमंधीरिमराजमानः
शावः सुपर्वशिखरीव पुपोष भूषाम् ॥ १०८ ॥ शावः हीरकुमारः सुपर्वशिखरी मेरुरिव भूषां शोभा पुपोष । शुशुभे इत्यर्थः । किंभूतः -शावः मेरुश्च । वक्षो हृदयं तदेव विस्तीर्णत्वात्तदुपमेयत्वाच शिला पृथुलप्रस्तरः तया कलितः युतः, तथा मजुलं मनोज्ञं जातमुत्पन्नं रूपं तनुवैभवः सुवर्णं च यस्य पश्चात्कर्म. धारयः । पुनः केंभूतः । न निषेधे क्षत्रियत्वेन राजन्यतया। 'क्षत्रं तु क्षत्रियो राजा - राजन्यो बाहुसंभवः' इति हैम्याम् । तथा-'क्षतात्किल त्रायत इत्युदनः क्षत्रस्य शब्दो भुवनेषु रूढः' इति रघौ । वणिग्जातित्वात् । नक्षत्रैर्योतिश्चकै पिता अलंकृता तनुर्वपुर्यस्य । पुनः किंभूतः । न नैव भोगेन वैपयिकमुखेन वालवादाज्या दिसुखेन वा व्यवहारित्वाद् युतः । पक्षे-नभसि आकाशे गच्छन्तीति नभोगा विद्याधराः सुराश्च तैः क. लितः तेषां क्रीडास्पदत्वात् । च पुनः खःशाखिनः कल्पवृक्षास्तद्वत्तेषां वा रुक् कान्तियस्य यत्र वा । पुनः किंभूतः । महिना माहात्म्येनाग्रे भविष्यता। भाविनि भूतोपचारात् । धीरिम्णा खाभाविकेन धैर्यण अग्रेऽपि उदेष्यता धीर वेन देवदानवमानवप्रभुविभीषिकायामपि निश्चलत्वात् शोभमानः ॥