________________
काव्यमाला |
यत्कारणादेष कुमारः वृषवद्वृषभ इव जिनस्यार्हतो धर्मे सुकृतकर्मणि धुर्यो धौरेयो धुरंघुरो भावी भविष्यति । इति हेतोः अस्य कुमारस्य स्कन्धोऽप्यंसोऽपि । उत्प्रेक्ष्यतेतस्य वृषभस्य ककुदेनांसकूटेन उपमेय उपमातुं योग्यः । किमभूद्बभूव । च पुनर्येन कारणेन अभ हीरकुमारो युगे कलिकाले विशिष्टातिशयमाहात्म्याभ्युदयात् प्रधानः प्रकृष्टः पुरा भवति अग्रे भविष्यति। पुरायोगे भविष्यदर्थे वर्तमाना 'यावत्पुरानिपातयोर्योगे लङ्’ आभ्यां निपाताभ्यां योगे भविष्यत्काले वर्तमाना स्यादिति प्रक्रिया • कौमुद्याम् । ‘पुरेदमूर्ध्वं भवतीति वेधसा' इति नैषधेऽपि । तेन हेतुना । उत्प्रेक्ष्यते— अस्यार्भकस्य बाहुर्भुजोऽपि युगवद्धूसरवत्प्रधानो व्यायतः आजानुबाहुत्वात् जज्ञे संजातः॥ - उद्दामदुर्गतिपुरेऽर्गलतांगमी यतद्दोरितीव लभतेऽर्गलयोपमानम् । यस्येभशङ्खमकरान्कलयन्प्रवाल
१३०
शाली पुनः श्रियमसूत शयः समुद्रः ॥ १०५ ॥
यत्कारणात्कुमारः उद्दाममनेकलोकानामातङ्ककारत्वादुत्कटम् । 'अबाधोच्छृङ्खलोद्दामा - न्ययन्त्रितमनर्गलम्' इति हैम्याम् । उच्छृङ्खलं यद्दुर्गतिर्नरका दिकुगतिः सैव पुरं नगरं तत्रालतां परिभावम् । 'द्वारेषु परिघोऽर्गला' इति हैम्याम् । अयं गमी गमिष्यति । 'यथा विदूराद्विरदूरतांगमी' इति नैषधे । ये जनाः अमुं सं सम्यक् त्रिधा सैविष्यन्ते तां दुर्गतिं गन्तुं न दास्यत्यसौ तत इदं विशेषणम् । उत्प्रेक्ष्यते - इतीव हेतोः । तस्य कुमारस्य दो
डोsपि अर्गलया नगरपरिघेण उपमानं सादृश्यं लभते प्राप्नोति । 'अमुष्य दोमरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता' इति नैषधे । पुनर्यस्य सह मुद्रिकया उर्मिकया साक्षराङ्गुलीयकेन वा वर्तते यः समुद्रः शयः पाणिः श्रियं शोभामसूताजीजनत् । किं कुर्वन् । दधत् । कान् । कृतिभाजः रेखाकारीभूतान् इभा गजाः, शङ्खाः कम्बवः, मकरा यादोविशेषाः, तान् । पुनः किंभूतः । प्रवालाः पलवास्तद्वत् शालते रक्तत्वेन सुकुमारत्वेन शोभते इत्येवंशीलः समुद्रोऽपि जलगजवारिजमकर कलितस्तथा विद्रुमविभाजी लक्ष्मी सूते च इत्युत्प्रेक्षा । उपमा वा ॥
तस्य स्फुरद्द्युतिपयःपरिपूर्णबाहुमूलालबालविलसद्भुजगण्डिभाजः । रेजुः शयावनिरुहोऽङ्गुलयोऽनुशाखाः कामाङ्कुशैः किसलयैरिव शालमानाः ॥ १०६ ॥
तस्य कुमारस्याङ्गुलयः करशाखा रेजुः शुशुभिरे । नु इति अव्ययं वितर्के विचारे प्रश्ने पृच्छायां वा । शयावनिरुहः पाणिरूपपादपस्य शाखाः शिखाः । किंभूतस्य शारुहः । स्फुरन्त्यो दीप्यमाना विस्तरन्त्यो वा द्युतयः कान्तय एव पयांसि स