SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः ] हीरसौभाग्यम् । १२२ द्वात्रिंशत्व स्पर्धयेव इति गर्भितोत्प्रेक्षा । पुनस्तदीयं कुमारसंबन्धि वदनं वाग्भिवणीभिः कृत्वा सुधां पीयूषं ववर्ष वर्षति स्म । उत्प्रेक्ष्यते -- पीयूषममृतं वर्षतीत्येवंशी - लस्तस्य सितरोचिषश्चन्द्रस्य अन्तश्चित्तमध्ये असूयया ईर्ष्ययेव सुधामवर्षत् ॥ उद्धृत्य कण्टकगणान्किमु वारिजन्म किं वात्मदर्शमपहृत्य विचेतनत्वम् । संतक्ष्य लक्ष्मशितिमानमुतामृतांशुं राजीवभूरकृत हीरकुमारवक्रम् ॥ १०२ ॥ राजीवभूर्वेधाः किमु इति वितर्कयामि विचारं कुर्वे । 'वितर्के किमूत च' इति है - म्याम् । वारिजन्म विकसितकमलम् । अर्थादादाय । कर्मद्वयं वा । कृधातोर्द्विकर्मकत्वेनहीरनाम्नः कुमारस्य वक्रं मुखमकृत विरचयांचकार । किं कृत्वा । कण्टकानां गणान् व्रजानुद्धृत्य निष्कास्य । ‘शशिनि खलु कलङ्कं कण्टकाः पद्मनाले जलधिजलमपेयं पण्डि निर्धनत्वम् । दयितजनवियोगो दुर्भगत्वं स्वरूपे धनपतिकृपणत्वं रत्नदोषी कृतान्तः ॥ इति सूक्तवचनात् पद्मे कण्टकाः । वा अथवा विचेतनत्वं चेतनाराहित्यम् अपहृत्य अज्ञानतां मुषित्वा आत्मदर्श दर्पणं किमादाय, हीरमुखं चक्रे । उत अथवा लक्ष्मणो लाअछनस्य शितिमानं कृष्णतां संतक्ष्योत्तार्य किम् अमृतांशुं सुधाकरं हीरवदनं विधिर्विदधे ॥ इति मुखम् ॥ निःशेषभूवलयकुण्डलिवेश्मना कि लोकत्रिके प्रसृमरैर्यशसां विलासैः । रेखा भविष्यति महत्सु यदस्य कण्ठे रेखात्रिकं किमिति निर्मितवान्विधाता ॥ १०३ ॥ विधाता ब्रह्मा अस्य कुमारस्य कण्ठे गलकदले । उत्प्रेक्ष्यते - इति हेतो रेखात्रिकं निर्मितवान् किमु कृतवानिव । इति किम् । यत् निःशेषं समयं भूवलयं मेदिनीमण्ड लम्, तथा कुण्डलिनां नागानां वेश्म गृहं पातालम्, तथा नाकिनां देवानां लोको विश्व स्वर्गस्तेषां त्रिके त्रयेऽपि प्रसृमरैः प्रतिस्थानं विस्तरणशीलैर्यशसां कीर्तनां विलासैर्वैचि - त्रीभिरस्य हीरकुमारस्य महत्सु उत्तमजनेषु रेखा भविष्यति । एतस्मात्परः कोऽप्येतागुणगणकलितस्त्रिभुवनेऽपि नास्तीति प्रसिद्धिर्भाविनी ॥ भावी यदेष वृषवज्जिनधर्मधुर्यः स्कन्धोऽप्यभूत्किमिति तत्ककुदोपमेयः । अर्भः पुरा भवति येन युगप्रधानो जज्ञेऽस्य बाहुरपि तेन युगप्रधानः ॥ १०४ ॥ १७
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy