SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १२८ . काव्यमाला। शुद्धाशयस्य दशनैरिव धार्यते स्म श्रीमत्कुमारवृषभस्य विशुद्धिमत्ता ॥ ९९ ।। तस्य कुमारस्य रसज्ञया जिह्वया । उत्प्रेक्ष्यते-इति रज्यते स्म रक्तीभूतमिव । इति किम् । यत्कारणादसी कुमारः पूज्येषु गुर्वादिषु अभ्यर्चनीयेषु विषये रङ्गितं रागयुक्तं जातं मनश्चित्तं यस्य ताहरवर्तते । 'रङ्गः स्यान्नत्ययुद्भवो रागेऽपि' इत्यनेकार्थः । पुनः शुद्धाशयस्य शुद्धो निर्मलो निष्पाप आशयश्चित्तं मध्यं च यस्य श्रीमतो लक्ष्म्या शोभया वा शालिनः कुमारेषु बलवत्तया धर्मकर्मादिषु धुरीणतया वा वृषभ इव वृषभः प्रशस्यो वा तस्य दशनैर्दन्तैरपि विशुद्धिमत्ता अत्यौज्ज्वल्यं धार्यते स्म घृता ॥ रक्ताङ्कपल्लवमुखान्द्विषतो जिगीषु र्धत्तेऽसिकं किमधरः सविधेऽदसीयः । भावी शिशु वि यदेष सुवृत्तशाली भेजे तदस्य चिबुकोऽपि सुवृत्तभावंम् ॥ १०० ॥ अदसीयः कुमारसंबन्धी अधरः ओष्ठः असिकम् अधराधःप्रदेशविशेषं धत्ते धारयति । उत्प्रेक्ष्यते-रक्ताङ्कपल्लवमुखान् विद्रुमकिसलयादिमान् द्विषतो वैरिणो जिगीपुर्जेतुमिच्छुः किम् । असिकं असिरेव असिकः । खार्थे कः । स्तं खड्ग विभात । अन्योऽपि वीरो रिपून निर्जेतुं करवालं कलयति यत्कारणाद्भुवि पृथिव्यामेष शिशुर्वालक: सुवृत्तेन शोभनाचारेण शालते शोभते इत्येवंशीलो भावी । तत्कारणादस्य कुमारस्य चिवुकोऽपि असिकाधःप्रदेशोऽपि सु शोभनं वृत्तमाचारो यत्र । तादृशं भावमाशयं संदाचारतां वा । वास्तवार्थे तु शोभनवर्तुलतां भेजे सिषेवे । 'तत्प्रान्तौ सकिणी 'असिकं त्वधः । असिकाधस्तु चिबुकम्' इति हैम्याम् ॥ द्वात्रिंशताजनि रदैरपि लक्षणानि ___ द्वात्रिंशदाकलयतः शिशुवासवस्य । पीयूषवर्षिसितरोचिरसूययान्त र्वाग्भिः सुधामिव ववर्ष मुखं तदीयम् ॥ १०१ ॥ करचरणयोश्छत्रचामरादीनि द्वात्रिंशत्संख्याकानि लक्षणानि आकलयतः बिभ्रतः । लक्षणानि यथा-'छत्रं तामरसं धनू रथवरो दम्भोलिकूर्माङ्कुशा वापी खस्तिकतोरणानि च सरः पञ्चाननः पादपः । चक्रं शङ्खगजौ समुद्रकलशौ प्रासादमध्या यवा यूपस्तूपकमण्डलून्यवनिभृत्सच्चामरो दर्पणः ।। उक्षा पताका कमलाभिषेकः सुदामकेकी घनपुण्यभाजाम्' इति षट्पदी । अथवा 'इह भवति सप्तरक्त: पडुनतः पञ्चसूक्ष्मदीर्घश्च । त्रिविपुललघुगम्भीरो द्वात्रिंशल्लक्षण: स पुमान् ॥' इति । शिशुषु महर्षिकत्वेन वासवस्य शक्रतुल्यस्य दन्तैर्वदनदशनैरपि द्वात्रिंशता द्वात्रिंशत्संख्याकैरजनि संजातम् । उत्प्रेक्ष्यते
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy