________________
१२७
३ सर्गः] हीरसौभाग्यम् ।
कुमारेषु वालकेषु रूपेण श्रिया वा पुरंदर इव पुरंदरस्तस्य दन्तैर्दशनैरदीप्यत शु. • शुभे । उत्प्रेक्ष्यते-मुखखनेर्वदनाकरादभ्युद्गतैः प्रकटीभूतैर्वज्ररत्नहीरकमणिभिरिव । वाथवा उत्प्रेक्ष्यते । वज्राब्जधानः कुमारवदन कमलमेव धाम मन्दिरं यस्यास्तादृश्याः श्रुतदेवतायाः सरखत्या: सेवया अर्थात् तद्वाहनत्वात्खखामिन्या उपासनया कृत्वा यत्सुखं तस्यानुभवनार्थं तद्वा प्राप्तुमागतैः समकालं समेतैर्गौरपत्रै राजहंसैरिव ॥
विम्बाधरे निपतिताभिरभासि यस्य
निधौतमौक्तिकशुचिद्विजचन्द्रिकाभिः । कृप्तेन्दुदर्पणपयोजजये कृताभि. भीभुवेव सुमवृष्टिभिरेतदास्ये ॥ ९७ ॥ यस्य कुमारस्य निर्धूतानि उत्तेजितानि यानि मौक्तिकानि तानीव शुचिभिरुज्ज्वलाभिर्द्विजानां दन्तानां चन्द्रिकाभिज्योत्स्नाभिरभासि निर्वभे। किंभूताभिश्चन्द्रिकाभिः । निपतिताभिः आगत्य स्थिताभिः । कस्मिन् । बिम्बाधरे गोल्हकतुल्ये ओष्ठे । उत्प्रेक्ष्यते-एतदास्ये कुमारवके नाभीभुवा नारायणनाभ्यम्भोरुहजन्मना वेधसा कृताभिः कुसुमवृष्टिभिरिव । कदा । कुप्ताभिनिमितो य इन्दोश्चन्द्रस्य दर्पणानामादर्शानां पयोजानां पद्मानां जयः परस्परविरोधायुद्धे पराभवः तत्र । तत्समय इत्यर्थः । 'नाभीमथैष श्लथवाससोऽनु' इति नैषधे नाभीशब्दो दीर्घोऽन्यस्ति ॥
पूर्णामृतैररुणरत्नमनोज्ञमध्या - पतीभवविजविराजिसवेशदेशा ।
यस्याननान्तरनिकेतनवाक्त्रिदश्या
वापीव खेलनकृते रसना बभासे ॥९८ ॥ ___ यस्य कुमारस्य रसना जिहा वभासे रेजे। उत्प्रेक्ष्यते-आननमर्थात्कुमारवदनं तस्या.न्तरं मध्यं तत्र निकेतनं सदनं यस्यास्तादृश्याः वास्त्रिदश्या भारत्याः खेलनकृते जलक्री. 'डार्थ वापी दीर्घिकेत्र । किंभूता वापी । अमृतैः पीयूषः सलिलैश्च पूर्णामृतमध्या । पुनः किंभूता वापी । अरुणरत्नैः पद्मरागमणिभिः मनोज्ञं रमणीयं बद्धं रचितं मध्यं यस्याः । मध्यमलोपीसमासः । पुनः किंभूता । पतया श्रेण्या भवद्भिर्वितिष्ठमानद्विजैर्दन्तविहंगमैश्च । अर्थात् विशदतया राजहंसपक्षिभिः विराजी शोभनशील: सवेशदेशः समीपविभागो यस्याः। वापी अपि जलाकीर्णा रत्नबद्धमध्या विहंगमकलिता च स्यात् ॥
पूज्येषु रङ्गितमना यदसौ कुमार
म्तस्य स्म रज्यत इतीव रसज्ञयापि ।