________________
३ सर्गः]
हीरसौभाग्यम् । वसथः सौधं तस्मिन् तद्भारधरणेन स्थम्भोपमः स्थम्भस्य तुल्यः भावी भविष्यति । यथा स्थम्भो गृहाधारभुतो भवति, तथायमपि श्रीजिनशासनस्याधारभूतो भविता । 'वजस्तम्भाविवते' इति जिनशतके जवायाः स्थम्भसादृश्यम् ॥
स्पर्धोदयान्निजविवृद्धिकृतौ यदूरू ।
जचे पुनः सरसिजन्मभुवा विभाव्य । तद्वन्द्वविग्रहनिषेधविधिप्रभूष्णु
____सीमाकरं विरचितं किमु जानुयुग्मम् ॥ ११२ ॥ . स्पर्धायाः परस्परं संहर्पस्य उदयादाविर्भावानिज निजयोरात्मात्मनोविशेषेण वृद्धिमु. पचयं कुरुतः सृजत इति निजविवृद्धिकृतौ यस्य कुमारस्य ऊरू पुनरर्थात्कुमारजई विभाव्य दृष्ट्वा सरसिजभुवा विधिना । उत्प्रेक्ष्यते-तयोर्द्वन्द्वयोर्युगलयोर्विग्रहस्य मिथः कलहस्य निषेधविधौ निवारणप्रकारे प्रभूष्णुः समर्थम् । अत एव सीमाया अवधेर्विभागस्य कर विधायकं जानुयुग्मं विरचिते कृतम् ॥
शुश्रूषयासनतयानिशमाप्रसादा
लब्ध्वा प्रसन्नमनसो वरमात्मयोनेः । विश्वाङ्ककारविजयप्रभविष्णुलक्ष्मि
स्मेराम्बुजन्म किमु यत्पदतामवाप ॥ ११३ ॥ स्मेराम्बुजन्म विकचकमलम् । उत्प्रेक्ष्यते-यत्पदतां कुमारस्य चरणत्वम् । पादावतारमित्यर्थः । किमवाप लभते स्मेव। किंभुताम् । विशेषु जगत्सु ये अङ्ककारा जैत्रप्रतिमालाः खश्रीपरिस्पर्धिनः । 'संकीर्णशंकरशशाङ्क कलाकारैः' इति नैषधे । तेषां विजये प्रभविष्णु: समर्था लक्ष्मीर्यस्यास्ताम् । किं कृत्वा । वरं खाभिलषितवाचं लब्ध्वा प्राप्य । कस्मात् । आत्मयोनेर्विधातुः । किंभूतात् । प्रसनं प्रसादोपेतं हृष्टं मनो हृदयं यस्य । कया । आप्रसादात् प्रसादं मर्यादीकृत्य अनिशं निरन्तरमासनतया वि. घरभावेन शुश्रूषया । 'सेवा भक्ति: परिचर्या प्रसादना । शुश्रूषाराधनोपान्तिः वरिवस्यापरिष्टयः ॥ इति हैम्याम् । आसनीभूय प्रसादसमयं यावनिलं सेवां विधाय ॥
यत्पादपङ्कजयुगाङ्गुलिभिः खकीय
लक्ष्म्या पराभवपदं गमिताः प्रवालाः । दुःखादिव द्रुमशिखाशिखरान्तरेषु
तित्यक्षवस्तनुलतां निजमुद्वबन्धुः ॥ ११४ ॥ प्रवालाः पल्लवा द्रुमाणां वृक्षाणां शिखास्तासां शिखराणि अप्राणि तेषामन्तरेषु मध्येषु । उत्प्रेक्ष्यते-निजमात्मानम् । श्रुत्वा निजं भीमजया निरस्तम्' इति नैषधे। निज