SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] हीरसौभाग्यम् । १२१ कुमारस्य स कोऽपि अद्वैतवैभवः लवणिमातिशयः लावण्याधिक्यं अभवत् बभूव।स कः। यदुपरि यस्य लावण्यातिशयस्योपरि स्थविरः पितामहः । 'स्थविरः शतानन्दपितामहौकः' इति हैम्याम्। 'प्रवयाः स्थविरो जरन्' इत्यपि हैम्याम् । शिवाय कल्याणकारणाय निलं प्रतिवासरं प्रोत्तारयन् उत्तारणं सृजन् न्युञ्छनीकुर्वन्वा मुक्ता मौक्तिकानि पवमानमार्गे आकाशे क्षिपति । किमुत्प्रेक्ष्यते । ता एव मुक्तास्तत्राम्बरे तारगणा ज्योतिर्मण्डलानि भवन्ति संजायन्ते ॥ स्पर्धादयादिव मिथः प्रवयं सृजद्भि - रङ्गैः सचङ्गिमवपुर्विभवेन तेन । . ईर्ष्या तमीप्रियतमः प्रणयन्विजित्य लक्ष्मच्छलेन मुमुचे किमु लाञ्छयित्वा ॥ ८२ ॥ तेन हीरकुमारेण ईर्ष्याम् । अर्थात् खवपुश्चारिम्णा सममसूयाम् । प्रणयन् कुर्वन् तमीप्रियतमः रजनीजानि: चन्द्रः विजित्य। अर्थात्पराभूय । गृहीत्वा वा । किमुत्प्रेक्ष्यतेलक्ष्मच्छलेन लाञ्छनकपटेन लाञ्छयित्वा लाञ्छनं मष्या अभिज्ञानं मुखे कृत्वा मुमुचे नभसि मुक्तः । 'किं नन्दिः किं मुरारिः किमु रतिरमणः किं विधुः किं विधाता' इति धनपालोक्तोपमानादत्र, विधोरुत्प्रेक्षा । तेन किम् । अङ्गैः शरीरावयवैः कृत्वा सह चनिम्ना मनोहरत्वेन वर्तते यत्तादृशस्य वपुषः शरीरस्य विभवः शोभातिशयो यस्य । अथ वा वपुर्विभवेति साधनेन जित्वेति । किं कुर्वद्भिरङ्गैः । इवोत्प्रेक्ष्यते-मिथः परस्परं स्पर्धायाः संघर्षस्य उदयात् प्रादुर्भावादिव प्रवयं पुष्टिं सृजद्भिर्विदधद्भिः ॥ . केशोच्चयः स्फुरति यस्य स नीलकण्ठ. पृष्ठे प्रविष्ट इव येन जितः कलापः । आबाल्यतः कुटिलता मनसोपनीता यं भेजुषी पुनरिवैत्य कचच्छटासु ।। ८३ ॥ तस्य कुमारस्य स चामरादिप्रतिपक्षलक्षजित्वरः प्रसिद्धः केशोच्चयः केशपाशः । 'बालाः स्युस्तत्पराः पाशो रचना भार उच्चयः । हस्तः पक्ष: कलापश्च केशभूयस्त्ववाचकः ॥' इति हैम्याम् । स्फुरति भासते । स कः । येन केशोच्चयेन जितः अभिभूतः कलापः शिखण्डिकम् । उत्प्रेक्ष्यते-नीलकण्ठः शंभुर्मयूरश्च तस्य पृष्टे प्रविष्टः शरणे गत इव । पुनर्यन कुमारेण आवाल्यतः शैशवं मर्यादीकृत्य मनसः स्खचित्तात् कुटिलतावक्रत्वम् अपनीता निष्कासिता सती । उत्प्रेक्ष्यते --उपेत्यागत्य यं कुमारं कुटिलता कचच्छटासु कुन्तलावलीषु भेजुषीव श्रितवतीव । 'तटान्तविधान्ततुरङ्गमच्छटा' इति छटाशब्दः समृहवाची नैषधे । तथा 'वक्रोक्तिकुशलस्य तस्य निलम्य] केशकलापोऽपि वक्रतां भेजे' इति चम्पूकथायाम् । इति पुरुषाणां केशकलापे वक्रता वर्णितास्तीति ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy