SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १२२ काव्यमाला। स्वध्यानलोपभवकोपपिनाकिजाग्र__दातङ्कशङ्कितमनः सुमनःशरस्य । . त्यागं तनोविदधतः कृतवान्विधाता छत्रेण यस्य किमु मौलिमवाङ्मुखेन ॥ ८४ ॥ विधाता ब्रह्मा यस्य कुमारस्य मौलिं मस्तकं कृतवांश्चक्रे । किमुत्प्रेक्ष्यते-सस्येश्वरसंबन्धिनो ध्यानस्य एकाप्रमनस्त्वेन परमात्मखरूपचिन्तनरूपस्य प्रणिधानस्य लोपेन भङ्गेन कुमारिकावस्थायां पाणिग्रहणकरणकृते सेवार्थ समागतायां गौर्या विषये रागो. त्पादनलक्षणविघ्नविधानेन पञ्चमी वा सर्वत्रभवः समुत्पन्नः कोपः व्यापादनकारणकोधो यस्य तादृग्विधात् पिनाकिनः शंभोर्जाग्रता प्रकटीभवता आतङ्केन भयेन । 'भयं. भीभीतिरातङ्कः' इति हैम्याम् । शङ्कितं खहननलक्षणशङ्कां प्राप्तं मनो यस्य तथाविधस्य । अतएव प्रतिपक्षपराभवात्प्रागेव तनोः खदेहस्य त्यागं विनाशं विदधतः कुर्वतः सुमनःशरस्य पुष्पबाणस्य कामस्य अवाङ्मुखेन अधोवक्रेण छत्रेण किमु कृतवान् । नि:खामिकतया मदनश्वेतातपत्रोपादानं युक्तमेव ॥ . उत्तुङ्गभावमथ वर्तुलतां दधान मुष्णीषमस्य सुषमा म बिभर्ति मौलौ। . यस्मिन्समाजिगमिषोस्तरुणत्वलक्ष्म्या माङ्गल्यकुम्भ इव केशरुहाश्रिताः ।। ८५ ॥ अस्य कुमारस्य मौलौ मूर्धनि उष्णीषमाकारविशेषः सुषुमां सातिशायिशोभा बि. भर्ति स्म दधार । 'सोष्णीषमूर्धा ध्वजचिहपाणिः' इति चम्पूकथायां नलविशेषणम् । अत एव तीर्थकृद्भय इतरेषामप्युत्तमपुरुषाणामुष्णीषं वर्ण्यते । उष्णीषं किं कुर्वाणम् । दधानं विभ्राणम् । कम् । उत्तुङ्गभावम् उन्नतत्वम् । अथ पुनर्वर्तुलतां वृत्ताकारत्वं च । इवोत्प्रेक्ष्यते-यस्मिन्हीरकुमारे समाजिगमिषोः सम्यक्प्रकारेण आगन्तुकामायास्तरुणत्वलक्ष्म्या यौवनश्रियः केशा एव रुहा दुर्वा । 'दुर्वा त्वनन्ता शतपर्विका । हरिताली रुहा' इति हैम्याम् । ताभिराश्रित आकलितः अङ्के उत्सङ्गे यस्य तादृशो माङ्गल्यः कल्याणकारी कुम्भः कलश इव ॥ यश्चन्द्रिकाङ्कितचतुर्द्विजराजराज द्भालार्धशीतमहसो वहते स्म शश्वत् । शुद्धाशयोऽमृतरसायितवाग्विलासो द्वासप्ततिः कलयतात्स कलाः कथं न ।। ८६ ॥ यो हीरकुमारः शश्वनिरन्तरं चन्द्रिकया ज्योत्स्नया अङ्कितान् कलितान् । 'दशनच
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy