________________
१९८
काव्यमाला। निराणां प्रवेशात्तररैः कलोले: नदीप्रवाहो वृद्धि धत्ते । किंभूतः सिन्धुप्रवाहः । पत्ररथैविहार्मरभिगम्यः खगसेव्यः ।
वाचस्पतेदिवि विधाय मुरान्विनेया
नुा नरानपि विधातुमुपेयुषः किम् । वप्रा व्यमोचि पठितुं सविधे द्विजस्य
- कस्यापि वाट्यविदः समहं कुमारः ॥ ७४ ॥ हीरकुमारः समहं महोत्सवपुरःसरं कस्यापि अनिर्दिष्टनानो द्विजस्य ब्राह्मणस्य स. विधे समीपे पठितुमध्येतुं वप्रा कुंराव्यवहारिणा व्यमोचि मुक्तः। किंभूतस्य द्विजस्य । वाङ्मयं शिक्षाकल्पव्याकरणादिर्शवशास्त्र वत्तीति वाङ्मयवित् तस्य । किमुत्प्रेक्ष्यते। खर्गे सुरान् देवान् विनेयान् शिष्यान् विधाय अपि पुनर्नरान् मनुष्यान् अध्यापनादिभिः शिष्यान् विधातुं कर्तुमुक्मवन्यामुपेयुष आगतस्य वाचस्पतेवृहस्पतेरिव ॥
तस्यार्भशक इव चित्रशिखण्डिसूनो- ..
लब्ध्वोपकण्ठमशटः स पठन्नकुण्ठम् । .. पोतः श्रुतिं स विधिवल्लिपिसंग्रहेण
प्रेम्णा विवेश नगरीमिव गोपुरेण ॥ ७५ ॥ स पोतो हीरकुमारः प्रेम्णा हार्देन हृदयाभिप्रायेण विधिवत् शास्त्रोक्तप्रकारेण लिपेरक्षरात्मिकायाः संग्रहेण आगमनेन । शिक्षणेनंत्यर्थः। श्रुति शास्त्र विदेश प्रविष्टः । शास्त्राभ्यास कर्तु प्रारब्धवानित्यर्थः । कामिव । नगरीमिव । यथा कश्चित् बालो गोपुरेण प्रतोल्या कृत्वा पुरी प्रविशति । पोतः किं कुर्वन् । अशटः सरलाशयः सन् । अकुण्ठं घोपात्यभ्यसनादिना तीक्ष्णं सोत्साहं वा सु अतिशयेनात्मनः सर्वप्रयत्नेन पठनधीयमानः । कि कृत्वा । तस्याध्यापकस्य उपकण्टं लब्ध्वा संप्राप्य । क इव । अर्भशक इव यथा वालक इन्द्रः । 'शैशवावधिगुरुर्गुरुरस्य' इति नपधे । एतेन काव्येन इन्द्रस्य वालवं तथा गुरुपार्श्वे मध्ययनमपि प्रोकम् । चित्रशिखण्डिसूनोवृहस्पतेः । 'विचित्रवाक्चिशिखण्डिसूनोः' इत्यपि नैषधे । पार्श्व प्राप्य पंटति ॥
छायां तनोरिव न लऋयितापि वाचं
प्रासादि तेन विनयावनतेन सूरिः । सर्वैरभावि च गुरोः सफलैः प्रयत्नै
स्तस्मिन्ननुपरभुवीव कृषीवलस्य ॥ ७६ ॥ • तेन हीरकुमारेण सूर: कलाचार्यः प्रासादि प्रसन्नीकृतः । तेन किंभूतेन । विनयेन
अवनतेन नम्रण । तेन पुनः किं कुर्वता । गुरोः स्वाध्यापकस्य वाचं वाणीम् । वचनमा