________________
३ सर्गः]. हीरसौभाग्यम् ।
धात्र्योदितां प्रथमतः पृथुकप्रकाण्डः
कीरस्य शाव इव चारुमुवाच वाचम् । तस्याः पुनः समवलम्ब्य कराङ्गुलीः स
लीलायितं वितनुते स्म गतौ स्विकायाम् ॥७१ ॥ स पृथुकप्रकाण्ड: बालशार्दूल: प्रथमतः पूर्वम् । सार्वविभक्तिकस्तस् । सर्वाभ्योऽपि विभक्तिभ्यस्तस् स्यादित्येके । धात्र्या उपमात्रा उदिताम् उच्चरितां कथितां चारं मनोहरां वाचं वाणीम् उवाच वक्ति स्म । क इव । कीरस्य शाव इव । यथा शुकस्य बालकः प्रथमतः कथितां चावी मनोज्ञां वाचं वदति । पुनः स कुमारः तस्या घात्र्याः कराकुली. हस्तस्य तर्जन्यादिका अङ्गुलीः समवलम्ब्य आश्रित्य । गृहीत्वेत्यर्थः । खिकायामात्मीयायां गती गमने लीलायितं लीलया आचरितं चारुचमणविलासं तनुते स्म। लीलागमनमदशयदित्यर्थः । हंसं तनौ संनिहितं चरन्तं मुनेर्मनोवृत्तिरिव खिकायाम् ॥
चूलाक्रियामहमथाङ्गभवस्य तस्य
संतन्वता पुलककोरकितेन तेन । श्रीदायितं प्रदिशता मणिहेमजात
माढ्यायितं समुदयेन च मार्गणानाम् ॥ ७२ ॥ अथ वाग्गमनपाटवभवनानन्तरं पुलकेन रोमहर्षेण कृत्वा कोरकाः कुमलाः संजाता अस्येति । 'पुलककोरकिततनुः' इति चम्पूकथायाम् । रोमाञ्चकचकितेन कुंराव्यवहारिणा तस्य हीरनाम्नोऽङ्गभवस्य खपुत्रस्य चूलाक्रियामहं शिखण्डिकाकरणाद्युत्सवं संतन्वता कुर्वता श्रीदायितं धनदेनेवाचरितं वदान्यतातिशयेन । तेन किं कुर्वता। प्रदिशता ददता। किम् । मणयो रत्नानि हेमानि सुवर्णानि तेषां जातं समूहम् । च पुनः मार्गणानां समुदयेन याचकनिकरेण आब्यायितं स्वाभाविकमहेभ्य इवाचरितम् । ईश्वरीभूतमित्यर्थः॥
शावः शुभैरवयवैः सवितुः प्रयत्ना.. दृद्धि दधावनुदिनं स्वजनैरुपास्यः । भूमीभृतो बहलनिर्झरतस्तरङ्गैः
सिन्धुप्रवाह इव पत्ररथैर्निषेव्यः ॥ ७३ ॥ शावो हीरकुमारः सवितुस्तातस्य प्रयत्नात् ममाहितमागितप्रदानपोषणप्रकारात् शुभैः प्रशस्तरवयवैः अङ्गोपाङ्गः अनुदिनं निरन्तरं वृद्धिं पुष्टिं दधौ वर्धते स्म । किंभूतः शावः । खजनातिवर्गमानवैनिजजनैर्वा उपास्यः कृतसेवनः । क इव । सिन्धुप्रवाह इव । यथा भूमीभृतः पर्वतस्य बहुलादनल्पात् निर्झरतः । सार्वविभक्तिकत्वात्तस्प्रत्ययः । शतशो