________________
काव्यमाला।
वा। वालशब्दो लालाघण्टान्यायेन उभयत्र संवध्यते। मरालवालस्तम्बरमौ हंसबालं वाल. गजं च । उत्प्रेक्ष्यते । विगायति निन्दतोव : कैः । क्वापैः शब्दैः । कासाम् । रणझण इनि शब्दो जात आसु इति । रणत्कारकलिता इत्यर्थः । तादृश्यो राजता रूप्यसंबन्धिन्यः । 'रौप्यघनघर्घटीजर्जरखरम्' इति हंसविशेषणं चम्पूकथायाम् । तथाविधाः किंकिण्यः लघुघुघुरिकास्तासाम् । किंभूताः । पादारविन्दयोरात्कुमारचरणकमलयोयुगलं तस्योपरि लम्बन्ते गुणप्रोताः कृत्वा ऊच लम्बायमानाः संजायन्ते । अथवा पदोपरिप्रदेशमाश्रयन्ते इत्येवंशीलाः । चरणोपरिबद्धानामत्यर्थः । इति धात्रीपरिपालनकारकरणादि ॥
कुंराहयस्य हरति स्म मनो मनोज्ञं ___ तन्मुन्मुनालपनमिभ्यगभस्तिभर्तुः । किंचिद्विजृम्भियुवभावनवोढबाला
नातिप्रगल्भकिलकिञ्चितवत्प्रियस्य ॥ ६९ ॥ मनोझं जनमनोहरं तस्य हीरकुमारस्य यन्मुन्मुनालपनमस्पष्टभाषणं तत्कुंरा इति आह्वयो नाम यस्य तादृशस्य इभ्येषु व्यवहारिषु मध्ये तत्पुत्रप्रतापेन कृत्वा भास्कर इव दीप्यमानत्वात् भास्करस्य ।सूर्यतुल्यस्येत्यर्थः । मनश्चित्तं हरति स्म । किंचित्किमपि स्तोकमात्रं विजृम्भी प्रकटीभवनशीलो युवभावस्तारुण्यं यस्यास्तथा नवोढा नवपरिणीता बाला वधूस्तस्या नातिप्रगल्भं न अतिशयेन प्रगल्भं परिणतीभूतं नातिचातुर्य वा किलकिञ्चितं विलासविशेषः । 'लीला विलासो विपिछत्तिविव्योकः किलकिश्चितम् । मोट्टायितं कुट्टिमितं ललितं विधृतं तथा । विभ्रमश्चेत्यलंकाराः स्त्रीणां खाभाविका दश ॥' इति हैम्याम् । तद्वत्प्रियस्य भर्तुश्चेतो यथा हरति । 'त्वयि वीर विराजते परं दमयन्तीकिलकित्रितं किल' इति नैषधे ॥
इक्ष्वाकुवंश इति नाभिमहीमघोना
विश्वप्रशस्यवृषभातनूभवेन । उत्केश इत्युदयवांस्तनयेन तेन
मेने महेभ्यवृषभेण निजान्ववायः ॥ ७० ॥ महेभ्यवृषभेण कुंराव्यवहारिपुङ्गवेन तेन हीरनामा तनयेन पुत्रेण उत्केश इति नाम्ना निजान्वयः खवंशः उदयवानभ्युदयः युद्ध मानतः ज्ञातः । केनेव । नाभिमहीमघोनेव यथा नाभिनरेन्द्रेण विश्वेषां त्रिभुवनजनानां प्रशस्येन श्लाघाहेण वृषभोऽः उरुप्रदेश लाञ्छनं यस्यं स वृषभाङ्कस्वेन वृषभदेवनाना तनूभवेन नन्दनेन इक्ष्वाकुनामा वंश उदयवानमानि ।।