________________
३.सगः]
हीरसौभाग्यम् । प्रोमनि मस्तके चूडामणि शिखारत्नं दधार धृतवती स्थापितवती या । पुनरयं हीरक. भारः यद्यस्मात्कारणात् सारेश्रिया आचार्यलक्ष्म्याम्तिलक इव विशेषक इव भविता भवि. प्यति। किमुत्प्रेक्ष्यदे। अपरा धात्री अस्य कुंरानायीनन्दनस्य अतः कारणात् भाले ललाटे तिलकं कुडुमादिकस्य स्वर्णरत्नमयं भूषणं पुण्ड्रकं चकार रचयामास ॥
तत्कयोमणिविनिर्मितकर्णपूर
द्वन्द्वं कयाचन विलम्बितमुद्दिदीपे । नित्योदयः कथमभूस्त्वमिदं मुखेन्दं
प्रष्टुं किमित्युपगतं शशिसूर्ययुग्मन् ।। ६६ ॥ कयाचन मण्डनकारिण्या धात्र्यान्यया वा स्त्रिया तत्कर्णयोहीरकुमारश्रवणयोः अवलम्बित न्यस्तं क्षिप्तं मणिविनिर्मितमात्खणरजतचन्द्रिकान्तपीतरत्नमयं कर्णपूरद्वन्द्वं कुण्डलयुग्ममुहिदीपे । शुशुभे । किमुत्प्रेक्ष्यते । इदं मुखेन्दुमस्य हीरकुमारस्य वदनचन्द्र प्रति इति प्रष्टुमिवोपगतं समेतं शशिसूर्ययुग्मं चन्द्रदिवाकरद्वयम् । इति किम् । हे हीरमुखेन्दो, त्वं नित्योदयः अनिशमभ्युदयोऽस्तराहित्यं यस्य तादृशः कयं केन प्र. कारेण अभूः संजातः तत्कारणमावयोवंद । यथा आवामपि नित्योदयौ भवावः ॥
नेत्रामृताञ्जनमसौ जगतां यदस्या. · नञ्जाक्षिणी किमिति काचन कज्जलेन । सर्वाङ्गसूत्रमिह धास्यति येन तस्यो
रःसूत्रिकां किमिति काचिदुरस्यधत्त ॥ ६७ ॥ यत्कारणादसी हीरकुमारः जगतां त्रिभुवनजनानां नेत्राणां नयनानाममृताञ्जनं मुधाया अञ्जनमिवास्ति भावी वा । किमुत्प्रेक्ष्यते । इति हेतोः काचन मण्डनकारिणी अस्य शिशोः अक्षिणी लोचने कजलेन आनन । पुनर्यन कारणेन असौ बालकः इह हृदये सवैः ममप्रैरङ्गराचाराङ्गादिभिरुपलक्षितं सूत्रं सिद्धान्तम् । जातिवाचित्वादेकवचनम् । धास्यति धारयिष्यति । किमुत्प्रेक्ष्यते । इति हेतोः कापि धात्री तस्य हीरकुमारस्य उरसि हृदये उरःसूत्रिकां मौक्तिकजालिकाम् । 'उरःसूत्रिका तु मौक्तिकः' । देशविशेषप्रसिद्धा बहुसरमुक्ताहारलतां वा अवत्त क्षिपति स्म ॥
पादारविन्दयुगलोपरिलम्बिनीनां
काणै रणज्झणितराजतकिंकिणीनाम् । वीडाविशेषललितेन मरालबाल
स्तम्बरमाविव विगायति यः कुमारः ॥ ६८ ॥ यः कुमारो वीतायाः स्वगमनस्य विशेषेणातिशयस्य ललितेन चारुतया बिलासेन