________________
११४
काव्यमाला।
एनं हिरण्यमणिभूषणभूषिताङ्ग
मिभ्याङ्गजं नयनयोरतिथि प्रणीय । सोऽयं स्मरो हरहुताशहतोऽवतीर्ण
एतन्मिषेण समशायि कयाचिदेवम् ।। ६३ ॥ हिरण्यमणिभूषणैः स्वर्णरत्नालंकारभूपिताङ्गमलंकृतकायमिभ्याज कुंराव्यवहारितनयमेनं हीरकुमारं नयनयोरात्मलोचनद्वन्द्रस्य अतिथि प्राघुणकं प्रणीय कृत्वा । यतः 'नयना- . तिथिं विधत्ते नेत्रप्राघुणकमातनोत्यपि च,' तथा 'दृग्गोचरीकरोति च लोचनविषयं च निर्माति,' तथा 'दृग्गोचरतां नयति च लोचनविषयत्वं च आनयति' इत्यादिः कियाकलापे। कयाचिद्धाच्या कामिन्या वा एवममुना प्रकारेण समशायि संशयश्चक्रे। . 'नैषधेन समशायि चिराय' इति नैषधे । एवं किम् । हरहुताशहतः । त्रिलोचनन. स्वभालप्रादुर्भूततृतीयलोचनज्वलनज्वालाज्वालितः । अत एव एतन्मिषेण । हीरकुमार- ' व्याजेन एतद्रूपेणेत्यर्थः । गृहीतावतारः आदत्तापरजन्मा सोऽयं प्राक्श्रवणगोचरीकृतः स्मरः काम इव मकरध्वजरूपावतारः । हीरकुमार इत्यर्थः ।।
काचिद्वशा विकचचम्पकसूनशालि___ मालां विलम्बितवती शिशुकण्ठपीठे । तस्मिंश्चिकीर्षुरिव कौतुकिनाकिमुक्त
प्रालम्बिकाङ्किनवकल्पतरूपमानम् ॥ ६४ ॥ ___ काचिद्वशा धात्री परा वा वनिता शिशोहीरकुमारस्य कण्ठपीठे विकचानां कुसुमितानां चम्पकानां हेमपुष्पकाणां सूनैः कुमुमः कृत्वा शालते' शोभते इत्येवंशीलां मालां विकसितचम्पककुसुमाकलितहारलतां विलम्बितवती चिक्षेप । स्थापयति स्मेत्यर्थः । उ. त्प्रेक्ष्यते । तस्मिन् हीरकुमारे कौतुकिना कुतूहलाकलितेन नाकिना केनापि देवेन मुक्ता अवलम्बिता स्थापिता प्रालम्बिका हेमदामदीनारमालिका सुवर्णझुम्बनकमड़े कण्ठेऽस्यास्तीति तादृशस्य नवस्य बालकस्य कल्पतरोवद्रुमस्य उपमानं साम्यं चिकीघुरिव कर्तुमिच्छुः किमु ॥
चूडामणिस्त्रिभुवनस्य यदेष भावी __ चूडामणि किमिति कापि दधार मूर्ध्नि । सूरिश्रियास्तिलकवद्भविता कुमारी
भालेऽपरास्य तिलकं किमतश्चकार ॥ ६५ ।। यद्यस्मात्कारणात एष हीरकुमारस्त्रिभुवनस्य त्रैलोक्यस्य चूडामणिरिव चूडामणि: शि. रोरत्नं भावी भविष्यति । कित्प्रेक्ष्यते । इति हेतोः कापि कान्ता धात्री वा अस्य शि