________________
११३
३ सर्गः] हीरसौभाग्यम् ।
कयाचन अनिर्दिष्ट नान्या चकोरदृशा बलचनुचक्षुषा धात्र्या अन्यस्त्रिया वा क्रीडाकारिण्या संचरतीति सर्वत्र मध्ये प्रसरतीत्येवंशील: संचारी तादृशश्चन्द्रः कर्पूरो यत्र।'चन्द्रोऽम्बुकाम्ययोः । वर्णे सुधांशी कर्पूरे कम्पिल्ले मेचकेऽपि च ॥' इत्यनेकार्थः । एतावता । घनकर्पूरमिश्रितरित्यर्थः । मलयद्रुमस्य चन्दनतरोः सान्द्रनिबिडैः प.वैः लिप्तः अङ्ग. रागकलितः कृतः । शिशोहीरकुमारस्य कायो देहश्वकासे विराजते स्म । 'चकास्ति चश्वति भासते भ्राजते लसत्यपि शोभते । विलसत्येवमाद्याः स्युजनार्थप्रकाशकाः॥' इति क्रियाकलापे । कायः किंभूतः । विकचा विकसिता या गन्धफली चम्पकपादपकुसुमं तद्वद्विलसतीत्येवंशीलः । 'इति चम्पकगौरागः कृतां विधोर्गन्धफली बलिश्रियम्' इति नैषधे । क इव । वर्णाद्रिशृङ्ग इव । यथा कनकाचलस्य मेरोः शिखरं चन्द्रिकया चन्द्रज्योत्स्नया अनुविद्धो व्याप्तः शोभते । 'भगयुगमथ शृङ्गोद्योगसंघा निदाघः' इति लिङ्गानुशासने शृङ्गशब्दः पुनपुंसकलिङ्गे ॥
नीलांशुकाकलितबालककामपाल__मूतॆरिवोपमितिमानयितुं कुमारे । काचित्कदाचन कुरङ्गमदाङ्गरागं
कौतूहलेन कुरुविन्ददती ततान ॥ ६१ ॥ कुरुविन्दाः पद्मरागमणयः तद्वद्दशना दन्ता यस्याः सा कुरुविन्ददती । 'को दर्शयेत्खां कुरुविन्दमालाम्,' 'चित्ते कुरुष्व कुरुविन्दसकान्तदन्ति' इति च । 'अग्रान्तशुद्धशुभ्र. वृषवराहेभ्यश्च' इति दन्तस्य दद्वा । स्त्रीलिङ्गत्वादीप् ।' इति नैषधवृत्तौ पाणिनिसूत्रम् । पदद्वयमपि च नैषधीयम् । काचिंचादृशी धात्री कदाचन कस्मिन्नपि समये कौतूहलेन कुरङ्गमदेन कस्तूरीद्रवेण कृत्वा अङ्गरागमर्थात्कुमाराङ्गे विलेपनं ततान कृतवती । उत्प्रेक्ष्यते । नीलेन अंशुकेन वसनेन कलितस्य आवृतस्य । परिहितनीलवस्त्रस्येत्यर्थः । तथा बालकस्य कुमारावस्थालंकृतस्य कामपालस्य बलभद्रस्य मूर्तेः शरीरस्योपमितिमुपमानं कुमारे खाभाविककनककेतकगौरशरीरहीरकुमारे आनयितुम् । प्रदापयितुमिवेत्यर्थः ॥
काचिच्चकोरनयना व्यवहारिसूनो
वाम्बुजं विकचनेत्रपुटैनिंपीय । चेतस्तमीदयितनिर्मलितात्मदर्श
मेराजदर्शनविधौ शिथिलीचकार ॥ ६२ ॥ काचिदज्ञाताभिधाना धात्री परा वा गता चकोरनयना कामिनी व्यवहारिसूनोः कुंरामहेभ्यनन्दनस्य वाम्बुजं मुखारविन्दं विकचैविकखरैनैरपुटेर्नयनपत्रपुटकैर्निपीय सादरमवलोक्य तमीदयितः पूर्णिमाचन्द्रः । तथा निर्मलितः शाणोत्तेजितः आत्मदर्शः दर्पणस्तथा स्मेराब्ज विकचकमलं तेषां दर्शनविधौ अवलोकनप्रकारे चेतः खमनः शिथिलीचकार मन्दीकरोति स्म। पार्वणेन्दुदर्पणपद्मेभ्योऽप्यधिकं यन्मुखनियर्थः ।