SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ११२ काव्यमाला। आनन्दमेदुरितमानसपद्मचा रकान्तरं परिचरन्स महेभ्यसूनुः । अभ्राधिकान्तरमिवार्भकभानुमाली कस्तूरिकामृगशिशुविपिनान्तरं वा ॥ ५९॥ · जननीजनकयोः उत्सङ्गयोविलासं वालक्रीडां कलयन् कुर्वन् उदलसत् उल्लसति सा शुशुभे । क इव । केलिकीर इव । यथा केलिकलितः क्रीडाकरः कीरः । अर्थात् बालशुकः । उल्लसतोविकसतोलताफलदयोरुत्सङ्गयोरुल्लसति।कुमारः किं कुर्वन् । मनोरथगणान् । अर्थात् पित्रोः । वाञ्छाशतानि पल्लवयन् नवीकुर्वन् फलयन् वा । क इव । प्रादृट्पयोद इव । यथा वर्षाकालसंबन्धी मेघः कुटजावनीजान् नीपगुमान् पल्लवयति किशलयकलित्तान् करोति । स महेभ्यसूनुः कुंराव्यवहारिनन्दनः स हीरकुमारः आनन्देन हर्षेण मेदुरितं पुष्टीभूतं मानसं मनो यासां प्रमोदप्रपूरितानां पद्मचक्षुषां कमललोचनानामेकस्मादागन्योङ्ग उत्सङ्गः अङ्कान्तरं परिचरन् सेवमानः । ‘भजते श्रयत्युपास्ते शीलत्युपतिष्ठते च शीतयति । उपचरति परिचरति च निषेवते च प्रसादयति॥' इति क्रियाकलापे । आवभासे शुशुभे । क इव । अर्भकभानुमालीव । यथा अभ्रस्य मेघस्य अधिकान्तरमेकस्या अत्रिकाया अपरा अभ्रिका वार्दलिका अभ्राभ्रिकान्तरं भजन् डिम्भभास्करो भासते । 'जरीजृम्भडिम्भद्युमणिरमणीयांशुलहरी' इति खण्डप्रशस्तौ । पुनः क इव । कस्तूरिकामृगशिशुरिव । यथा कस्तूरिकाहरिणा बालकाः विपिनान्तरमेकस्माद्विपिनाद्वनादन्यद्विपिनं विपिनान्तरं शीलन् । पुनः क इव । द्विरदेन्द्रवाल इव । यथा गजराजस्य । 'पञ्चवर्षों गजो बालः' इति हैम्याम् । बाल: शिशुः विन्ध्योपलान्तरमेकस्माद्विन्ध्योपलाजलबालकशैलशिलायाः अन्यं विन्ध्योपलं शिलोत्सङ्गम् । विन्ध्यस्तु जलवालकः' । तथा 'प्रावा शिलोपलो गण्डः' इति द्वयमपि हैम्याम् । पुनः क इव । अर्भककाकपुष्ट इव । यथा क्षीरकण्ठकलकण्ठः कोकिलबालक: चूतद्रुमान्तरमेकस्मान्तद्रुमात्सहकारतरोरपरश्तद्रुमः अन्यो माकन्दपादपः । पुनः क इव। भ्रमर इव । यथा मधुकरः स्मेराम्बुजान्तरमेकस्मात्स्मेराम्बुजाद्विकचकमलादपरं स्मेराम्बुजं विकसितपद्मं शीलयत् । पुनः क इव । कलहंस इव । राजमरालबालकः तरङ्गोत्सङ्गान्तरम् एकस्मात्तरङ्गस्य कल्लोलत्य उत्सङ्गादपरं तरङ्गोत्सङ्घ लहरीकोडमुपचरन् भासते ॥ वर्णेऽद्रिशृङ्ग इव चन्द्रिकयानुविद्धः कायः शिशोर्विकचगन्धफली विलासी । संचारिचन्द्रमलयद्रुमसान्द्रपङ्क लिप्तः कयाचन चकोरदृशा चकासे ॥ ६ ॥
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy