________________
३ सर्गः] हीरसौभाग्यम् ।
१११ स हीरकुमारः पूर्वी प्राची अपरा प्रतीची सृष्टिभ्रमणेन पूर्वस्या दक्षिणस्यां गमनादक्षिणा गृहीता पश्चिमाया उत्तरस्यां गमनादुत्तरापि गृहीतव एतावता चतसणां दिशां ग्रहणात् तासामम्बुनिधयश्चत्वारोऽपि समुद्राः । ‘पयोधरीभूतचतुःसमुद्राम्' इति खुवं. शवचनात् । एवं मञ्जुला बन्धुरा खर्णमणिमौकिकमण्डिता मेखला काची यस्था मेखला तु वलयाकारतया कटीजघनादिप्रदेशे परिधीयते ततश्चतुर्दिग्वर्तिसमुद्रोपादानम् । अथवा अपरोऽपि पाठः । यथा 'अर्भश्चतुर्जलधिमञ्जुलमेखलायाः' । चत्वारः प्राची प्रतीची अवाची उदीचीति चतुर्दिग्वर्तिनो जलधयः समुद्रा एव मञ्जुला मनोहरा मेखला रसना यस्यास्तादृश्या भूमेः पृथिव्याः भर्तुः खामिनः चतुर्दिक्पायोनिधिपर्यन्तभूमीपालस्य चक्रिवतिनः उचितैयोग्यैः चिहैः सामुद्रककथितैर्लक्षणैः समभूषि अलंकृतः । अर्थात् हस्तपादाद्यङ्गोपाङ्गेषु शोभितः । उत्प्रेक्ष्यते । दानमभयसुपात्रपाणिप्रमुखविश्राणनम्, अनुकम्पनं मार्यमाणप्राणिमोचनदुःखितदीनकष्टापनयनादिदया, सभाजनं देवगुर्वादिपूजनभक्तिः, तद्रूपैनीरैः सलिलैः सिक्तस्य प्राचीनं पूर्वजन्मावतीर्णे यत्पुण्यं स एव विटपाः शाखाविशेषाः सन्त्यस्यास्मिन् वा इति विटपी वृक्षस्तस्य प्रसवैः पुष्परिव । 'पुष्पं सून सुमनसः प्रसवश्च मणीचकम्' इति हम्याम् ॥
सज्ञातिलोचनचकोरनिपीयमानै___ लावण्यचञ्चदमृतैरुपचीयमानैः ।
वृद्धिं दधार पृथुको प्रतिमैः प्रतीकै: तीयिकेन्दुरिव सान्द्रकलाकलापैः ॥ ५७ ॥
‘स पृथुकः हीरकुमारः न विद्यते प्रतिमा प्रतिबिम्बं सदृशं वस्तु केनापि सादृश्यं वा येषाम् । न तन्मुखस्य। प्रतिमा चराचरे' इति नैषधे । तैरसाधारणैः प्रतीकैरवयवैः । 'एकदशे प्रतीकोऽङ्गावयवापघना अपि' इति हैम्याम् । कृत्वा वृद्धिं पुष्टिं दधार धत्ते स्म । किंभूतः प्रतीकैः । सज्ञातीनां खजनानां लोचनान्येव चकोरा ज्योत्स्नाप्रियास्वैर्निपीयमानैः सादरमतृप्तं च अवलोक्यमानैः । पुनः किंभूतैः । लावण्यानि सुन्दरतातिशया एष चश्चन्ति पुण्यानि चेतोहराणि वा अमृतानि सुधारसास्तैः पुष्टिं प्राप्यमानः नीयमानः । .. के इव। द्वैतीयिकेन्दुरिव । यथा श्वेतपक्षे द्वितीयायां भवो द्वितीयिकः द्वितीयासंबन्धी वा
चन्द्रः सान्द्राणां स्निग्धानां बहुलानां वा कलानां षोडशांशलक्षणानां भागानां कलापैः कृत्वा वृद्धि धत्ते । 'केनेथका' इति कप्रत्ययः । णित्वं त्वेषां विकल्पकमिति कापि वृद्धिः । द्वितीयाया अयं द्वतीयकः ॥
पित्रोर्मनोरथगणान्कुटजावनीजा
न्प्रावृट्पयोद इव पल्लवयन्कुमारः । उत्सङ्गयोरुदलसत्कलयन्विलासं
फुल्लल्लताफलदयोरिव केलिकीरः ॥ १८ ॥