SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ३ सर्गः] हीरसौभाग्यम् । पारीन्द्रपोत इव गैरिकशृजिशृङ्गे तत्पाणिपल्लवतले विललास बालः ॥५१॥ तस्य कुंरामहेभ्यस्य पाणिरेव शोणत्वात्पल्लवः किसलयमिव पल्लवखख तले उदरे मध्ये स बालः शुशुभे । क इव । पूर्वाद्रेरुदयाचलस्य पाटले लोहिते शिलावलये उपलोत्सझे विस्तीर्णप्रस्तरमध्ये वा। मिलिता एकतयैव दृश्यमाना वलयाकाराः शिलाः शिलावलयं तस्मिन् शशी सौम्यश्चन्द्र इव । पुनः क इव । कोकनदं रक्कोत्पलं तस्य पत्रे दले लीलायुक्तः क्रीडाकारी वा मराल: राजहंस इव । पुनः क इव । गैरिके धातुमये शृङ्गाणि सन्न्यस्मिन्निति शृङ्गी तस्य शृङ्गिणः शैलस्य शृङ्गे शिखरे पारीन्दस्य मृगेन्द्रस्य पोतः बाल: केसरिकिशोरक इव ॥ जन्मोत्सवं विदधता तनयस्य तेन ___ कामाधिकं प्रदिशतार्थिकृतेऽर्थजातम् । श्रीदस्तदावगणना गमितो निकेतं कैलाशमूर्ध्नि विदधे किमपत्रपिष्णुः ॥ ५२ ॥ तदा तस्मिन् नन्दनजननसमये तेन कुंराव्यवहारिणा अवगणनां दानशौण्डत्वेनावहेलना गमितः प्रापितः सन् श्रीदः धनदः । किमुत्प्रेक्ष्यते।अपत्रपिष्णुर्लबाशीलः सन् कैलाशस्य स्फटिकाचलस्य मूर्ध्नि उपारे शिखायां निकेतं खसदनं विदधे कृतवानिव । महे. भ्येन किं कुर्वता । तनयस्य निजनन्दनस्य जन्मोत्सवं जननस्य महामहं विदधता कुर्वता। • पुनः किं कुर्वता । कामान्मनोभिलषितार्दप्यधिकमतिशयितमर्यानां द्रविणानां जातं समूहमाकृते याचकजनार्थम् । याचकायेत्यर्थः । प्रदिशता यच्छता ददता ॥ सूनो नेर्महमसौ विभवानुरूपं __ श्रीमन्महेभ्यमघवा घटयांबभूव । संजातजातविधिरप्यदसीयसूनु ... नि—तदर्पण इव स्फुरयांबभूव ॥ ५३ ॥ असौ कुराख्यः श्रीमन्तो लक्ष्मीकेलिनिकेतना ये महेभ्या महाव्यावहारिणस्तेषु तेषां मध्ये वा मघवा पुरंदरः प्रथमगणनीयत्वात्सर्वोत्कृष्टत्वाच्च विभवानुरूपं खद्रव्यस्थोचितं योग्यं सदृशं सूनोः पुत्रस्य जनेर्जन्मन: महमुत्सवं घटयांबभूव चकार । 'सृजति करोति प्रणयति घटयति निर्माति निमिमीते च' इति क्रियाकलापे करणार्थाः क्रियाः । अपि पुनः संजातः संपन्नः निर्वर्तितः जातस्य जन्मसंस्कारादेः प्रथमे दिवसे स्थितिपदिका तृतीये वासरे चन्द्रसूर्यदर्शनादिको विधिः प्रकारो यस्य तादृशोऽदसीयसूनुर्नाथीकुंरामहेभ्यनन्दनः निर्धूतदर्पण इव शाणाप्रोत्तेजितात्मदर्श इव । 'निर्धूतहारगुलिकाविशद
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy