________________
१०८
काव्यमाला।
हृत्सद्मसूत्रितजगत्रयविस्तरापि
विज्ञावली प्रभुरभून्न तदा प्रमातुम् ॥ ४९ ॥ तदा तस्मिन् काले पुत्रप्रसवसूतिकासदनागमननन्दनावलोकनसमये तस्य कुंरासाधोः अङ्गजः खनन्दनस्तस्यास्यं वदनमेव शशी संपूर्णपार्वणचन्द्रः । पूर्णचन्द्र एव शशी लक्ष्यते नान्यथा । अत एव शशी तस्य दर्शनतोऽवलोकनादम्बुराशेः समुद्रस्येव वारां जलानामिव उल्लसन्तीनां प्रकटीभवन्तीनाममन्दानामकुण्टानामनल्पानाममेयानां वा मुदामानन्दानामियत्ता इयत्परिमाणत्वमेतावन्मात्रतां प्रमातुं प्रमाणीकर्तुं : विज्ञावली प्राज्ञश्रेणी न प्रभुरभूत् न समर्थीवभूव । ज्ञातुं कदाचिन शक्नोति स्मेत्यर्थः । किंभूता विज्ञावली। हृत्सद्मसु स्वेषां विज्ञानां मनोमन्दिरेषु सूत्रितः सूत्रतामानीतः गोचरीकृतः । विज्ञात इत्यर्थः । जगत्रयस्य त्रिभुवनस्य विस्तरः प्रपश्चो यया । 'प्रक्रियां नातिविस्तराम्' इति सारखतप्रथमश्लोके । त्रैलोक्यसकलखरूपवेदनविदुरापीत्यर्थः । 'तेज:पालश्च विष्णोश्च कः खरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदरकन्दरे॥' इत्यर्बुदाचललूणिगवसतिमध्यस्थवस्तुपालप्रशस्तौ ॥
आखादयंल्लवणिमामृतमेतदास्या
वश्यायमासि वसतिं गवि चानुतिष्ठन् । पश्यन्सुतं घुसदिवाजनि निर्निमेष
नेत्रारविन्दयुगलः स महेभ्यकुम्भी ॥ ५० ॥ स कुंरानामा महेभ्यकुम्भी व्यवहारिकुञ्जरः सुतं खनन्दनं पश्यन् विकचलोचनाभ्यामवलोकयन् दिवि खर्गे सीदति तिष्ठतीति घुसत् देव इव निर्गतो निमेषो मीलनं ययोस्तादृशे नेत्रे लोचने एवारविन्दे कमले तयोर्युगलं द्वन्द्वं यस्य । मेषोन्मेषरहितनयनयामल इत्यर्थः । तादृशोऽजनि संजातः । किं कुर्वन् । एतस्यात्मनन्दनस्य आस्ये वदने एवावश्यायभास्तुहिनकिरण: चन्द्रस्तस्मिन् । 'अवश्यायस्तुहिनं प्रालेयं मिहिका हिमम्' इति हैम्याम् । लवणिमा लावण्यमेवामृतं सुधारसमाखादयन् पिबन् । पुनः किंभूतः । गवि भूमौ खर्गे च वसतिं वासमनुतिष्ठन् कुर्वन् । देवोऽपि चन्द्रामृतं पिबति। ['असितमेकसुराशितमप्यभून पुनरेष पुनर्विशदं विशम्। अपि निपीय सुरैर्जनितक्षयं खयमुदेति पुनर्नवमार्णवम् ॥' इति नैषधे । अस्यार्थः–'अर्णवादागतमार्णवं कृष्णं विषमेकेन सुरेण हरेण अशितं जग्धं पुनर्नाभूत् । पुनर्न जातमित्यर्थः । एष चन्द्रः पुनः श्वेतं विषं मुरैर्वस्यादिभिर्देवैनिपीड्य जनितक्षयम् । 'प्रथमां पिबते रविः' इत्यादि श्रुतेः । 'ईदृशमपि पुनर्जायते' इति । 'इज्येव देवप्रजभोज्यऋद्धिः शुद्धा सुधादीधितिमण्डलीयम्' इत्यपि नैषधे । खर्गे च तिष्ठति निनिमेषश्च स्यात् ॥
पूर्वाद्रिपाटलशिलावलये शशीव ।
लीलामराल इव कोकनदच्छदे वा ।