________________
३ सर्गः ]
हीरसौभाग्यम् ।
१०७
कथयतामनुगव्रजानां सेवकलोकप्रकराणां किरीटं मुकुटमेवादेयं दातुमनर्हमासीत् । एतावता मुकुटवर्जे सर्वाङ्गीणान्यप्याभरणानि प्रदत्तवानित्यर्थः । कस्येव । धात्रीपतेरिव पथा भूमीभर्तुः राज्ञः भुवः पृथिव्या भर्तृभावस्य स्वामित्वस्य ककुदं चिह्नं सूचकं वा । 'नृपतिककुदं दत्त्वा यूने सितातपवारणम्' इति रघौ । विशदातपत्रं श्वेतच्छत्रमदेयं भवति । किं कुर्वतस्तस्य । राज्ञश्च हृदन्तर्मनोमध्ये मुदं नन्दनजन्माविर्भूतां प्रीतिं प्रमोदं दधतो
धारयतः ॥
लक्ष्मीवतामधिपतेरनुजीविवृन्दैः
पुत्र प्रसूतिममितं मधु निर्दिशद्भिः । पाणिप्रदेशनविधौ ददृशेऽस्य पञ्च
शाखोऽपि लेखशिखरींव सहस्रशाखः ॥ ४७ ॥
अनुजीविनां सेवकानां वृन्दैः प्रदेशनविधौ पुत्रवर्धापनिकाप्रदानप्रमोददानसमये लक्ष्मीवतां धनधान्यादिविविधसमृद्धिभाजां व्यवहारिणामधिपतेर्नायकस्य अस्य कुंराख्यस्य पञ्चैव शाखाः शिखा अङ्गुलयो यत्र तादृशः पाणिर्हस्तः स एव लेखशिखरी कल्पशाखीव सहस्रसंख्याकाः शाखा लता यस्य । 'शिखाशाखालताः समाः' इति हैम्याम् । स सहस्रशाखो ददृशे दृष्टः । अनुजीविवृन्दैः किं कुर्वद्भिः । पुत्रस्य नाथीनन्दनस्व प्रसूतिं जन्मैव अमितं मानरहितं मधु माध्वीकमस्य महेभ्यस्य निर्दिशद्भिः कथयद्भिः । ‘अमितं मधु तत्कथा मम' इति नैषधे ॥ इति पुत्रवर्धापनिकादानादि ॥ आसाद्य तत्प्रसववेश्म समं सगोत्रैः
सुनोरतृप्ति स पिबन्वदनारविन्दम् । अद्वैतस्रंमदपरम्परयालिलिङ्गे
लक्ष्म्या पुमानिव पचेलिमपुण्यशाली ॥ ४८ ॥
स महेभ्यः न विद्यते द्वैतं युगलं येषाम् । 'युगं द्वैतं यमं युग्मम्' इति हैम्याम् । असाधारणानामित्यर्थः । तादृशानां संमदानां प्रमोदानां परम्परया आलिलिङ्गे आविष्टः । कयेव । लक्ष्म्येव । यथा पचेलिमेन परिपाकं प्रातेन उदयाचलिकायामागतेन पुण्येन सुकृ! तेन शुभकर्मणा शालते शोभते इत्येवंशीलः पुमान् श्रिया क्षीरार्णवनन्दिन्या आलिङ्गयते आश्लिष्यते । आश्रीयते इत्यर्थः । महेभ्यः किंविशिष्टः । न विद्यते तृप्तिः सौहित्यमत्यादरतया यत्र, तृप्तिरहितं यथा स्यात्तथा क्रियाविशेषणम् । सूनोः स्वपुत्रस्य वदनारविन्दं मुखकमलं पिबन् सादरमवलोकयन् । किं कृत्वा । सगोत्रैः स्वजनैः समं तस्या नाथीदेव्याः प्रसववेश्म सूतिकासदनमासाद्य संप्राप्य समागत्य ॥
तस्याङ्गजास्यशशिदर्शनतोऽम्बुराशेर्वारामिवोल्लसदमन्दमुदामियत्ताम् ।