________________
१०४
काव्यमाला ।
सनवनाटकसूत्रभृत्' इति पाण्डवत्ररित्र । इति मन्दता । त्रिविधोऽपि समीरणो वर्णितः। किमृत्प्रेक्ष्यते-तं कुमारं प्रेक्षितुं किमु अवलोकयितुमिव वा ।।
आसीदसौ कलियुगे युगबाहुरस्मि
नहन्निवातिशयितातिशयाश्रितत्वात् । एतस्य जन्मनि जिनाधिपतेरिवान्तः
प्रीतेरितीव दिवि दुन्दुभयः प्रणेदुः ॥ ४० ॥ .. हीरकुमारस्य जन्मनि जननसमये दिवि आकाशे दुन्दुभयो मदन(ल)भेर्यो निःस्वना वा प्रणेदुर्वाद्यन्ति स्म । 'उन्नदितं वियत्यदृष्टमङ्गलवादित्रैः' इति नलजन्मनि चम्पूकथायाम् । तथा 'निःशेषदिविषद्वर्गप्रमोदपिशुनास्तदा । समाकण्यन्त सानन्दं दुन्दुभिष्वनयो दिवि ॥' इति युधिष्ठिरजन्मनि पाण्डवचरित्रं च । जिनाधिपतेरिव यथा श्रीजिनेश्वरस्य जन्मनि व्योमनि दुन्दुभयः प्रणदन्ति इवोत्प्रेक्ष्यते । इत्यमुना प्रकारेण अन्तः स्वमनसि प्रीतेर्मुदः । इति किम् । यदस्मिन् कलियुगे अतिशयितैः स्फतिप्राप्त रतिशयैर्महिमविशेषैराश्रितत्वादसौ शिशुः अर्हन्निव तीर्थकर इवासीत् । किंभुतः । युग. ववाह यस्य धूसरप्रमाणभुजः । आजानुबाहुरित्यर्थः ।।
एकांशवानपि कलौ शिशुनामुनाह
मङ्गैश्चतुर्भिरुदयीह पुरा भवामि । धर्मेण पल्लवितमन्तरितीव जाते
विश्वासुमत्प्रमददायितदङ्गजाते ॥ ११ ॥ विश्वेषां त्रयाणां सप्तानां वा चतुर्दशानां वा एकविंशतेवा । 'भुवनानि निबध्नीयात्रीणि सप्त चतुर्दश' इति वाग्भटालंकारे । वृत्त्यादावेकविंशतिरपि । जगतामसुमन्तो ज. न्तवः तेषां प्रमोदं हर्ष ददातीत्येवंशीलस्तादृशे तदङ्गजाते नाथीकुंराव्यवहारिणोरङ्गजाते पुत्रे जाते सति धर्मेण अन्तश्चित्ते पल्लवितम् । प्रहृष्टमित्यर्थः । 'चिरात्पल्लवितमिव राजवंशेन' इति चम्पूकथायां नलजन्माधिकारे । इति हेतोरिव । इति किम् । यद्यस्मात्कारणात्कलौ कलिकाले एको न द्वितीयः अंशो भागोऽर्थाच्चतुर्थपादो विद्यते यस्य स एकांशवानप्यहं धर्मः। 'पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना केन तपः प्रपेदिरे । भुवं यदेकानि कनिष्ठया स्पृशन् दधावधर्मोऽपि कृशस्तपम्विताम् ॥' इति नैषधे । कृतयुगे किल धर्मश्चतुर्भिः पादैविजयी भवेदधर्मः पुनरेकांशेन स्यात्, कलियुगे तु अधर्मश्चतुभिः पादैर्धर्मस्त्वेकांशमात्रः एतदेव तपस्विनां महत्तपः यद्भूमी एकपादकनिछाङ्गल्या स्पृशन् तिष्ठति तथा कृतयुगेऽधर्मः कलियुगे तु धर्मस्तपस्वी कृशत्वं भजते । प्रस्तुतम् । अमुना कुमारेण चतुभिरकैः संपूर्णावयवैः सर्वात्मनव इह भरतभूमी उदयी