________________
३ सर्गः] . हीरसौभाग्यम् ।
१०५ अभ्युदयवान् पुरा भवामि । भविष्यामीत्यर्थः । यावत्पुरानिशतयोोंगे भविष्यत्काले वर्तमानाः इति प्रक्रियासूत्रेण पुरायोगे वर्तमानयोर्विभपयोर्भविष्यदर्थ: प्रकाश्यते । 'पुरेदमूर्ध्व भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया' इति नैषधे ॥
एतद्गुणाभिनवगानविधानपूर्व
प्रारब्धताण्डवतरङ्गिरसागरशः । प्रारप्स्यते विबुधराजसमाजरङ्गे
ऽस्माभिर्मुदेति दिवि किं ननृतेऽप्सरोभिः ॥ ४२ ॥ रम्भातिलोत्तमोर्वशीघृताचीप्रमुखाभिरप्सरोभिः खर्गाङ्गनाभिः । किमुत्प्रेक्ष्यते । इत्यमुना प्रकारेण कृत्वा मुदा किं हर्षेणेव दिवि आकाशे ननृते नर्तितं ताण्डवममण्डि । इति किम् । विबुधानां पण्डितानां राज्ञामत एव पण्डितराजत्वान्नवखपि शृङ्गारादिरसेषु कुशलत्वं ज्ञातृत्वं च यस्य तादृक् । वास्तवार्थे देवानां नायकस्तस्य समाजः समास एख रङ्गो नर्तनस्थानं तत्र एतस्य भाविसूरेः कुमारस्य गुणानां शमदमसंयमाकि (दि)कानां 'त्रिंशत्षट्त्रिंशिकासंख्यानां गणनातीतानां वा. अभिनवानां पूर्वगीतापेक्षया नूतनानां
नां गीतीनां प्राक्श्रुतगीतिश्रवणे तादृक् रसो न स्याद्यादृक् नवीनगानश्रवणे रसः समु. यते। तस्मादेतस्य ध्रुवपदगानानां विधान निर्माणं तदेव पूर्वमादिर्यत्र तादृशं प्रारब्ध. मुपक्रान्तम् । 'प्रारम्भःप्रोपतः क्रमः' इति हैम्याम् । यत्ताण्डवं नाट्यं तस्य तत्र वा तरगयुक्ता जातास्तरङ्गिताः कल्लोलिता ये रसाः शृङ्गारादयो नव आखादो वा । 'रसः खादे जले वीर्ये शृङ्गारादौ विषे द्रवे। बोले रागे देहधाती तिवादी पारदेऽपि च ॥ इत्यनेकार्थः। त एव अङ्गमवयवः शरीरं वा तादृशो रङ्गः अस्माभिरप्सरोभिः अवाप्स्यते उपक्रस्यते। 'तदनन्तरमाकाशे संगीतमुदजृम्भत । रम्भोर्वशीप्रभृतयो नृत्यमप्सरसो व्यधुः ॥' इति पाण्डवचरित्रेऽर्जुनजन्माधिकारे । तथा 'खकान्तिसर्वखापहारभयादिव दिवि ननृतुरप्सरसः' इति चंम्पूकथायां दमयन्तीजन्मनि ॥ इति हीरकुमारजन्ममाहात्म्यम् ॥
प्रल्हादनाह्वनगरं पुरमप्यमुष्य
... मूर्त्या पवित्रयितुमन्तरिवेहमानः । _ श्रीसोमसुन्दरयतिक्षितिशीतकान्ति
.. जन्मापरं खयमसौ ग्रहयांबभूव ॥ ४३ ॥ असो सोममुन्दरनामा यतीनां साधूनां मध्ये क्षितेः पृथिव्याः शीतकान्तिश्चन्द्र एतावता राजा श्रीसोममुन्दरसूरिः स्वयमात्मना परमन्यजन्मावतारं ग्रहयांवभूव जग्राह । उत्प्रेक्ष्यते । अमुष्य कुमारस्य मूर्त्या शरीरेण पुनरपि द्वितीयवारं प्रल्हादनमिति आह्वा नाम यस्य तादृशं नगरं पवित्रयितुं पावनीकर्तुमीहमानो वाञ्छन्निव । एकवारं सोमसुन्दरसूरिवपुषा प्रल्हादनपुरं पवित्रितं द्वितीयवारं हीरविजयसूरिमूर्त्या कृत्वा पवित्रीचिकीर्षुरिव ॥
१४