SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १०० काव्यमाला। स आश्रयोऽधिष्ठानं यस्य । कस्मिनिव । पत्याविव । यथा रतेः पत्यौ भर्तरि मकरे ध्वज. रूपत्वाद्वाहने आश्रय आश्रयणं यस्य । इति मकरे चन्द्रमाः । पुन: शनों शनैश्चरे मीनं मीनलग्नं मदयति सति । किंवत् । सलिलवत् । यथा पानीयं मीनं समदं कुरुते पयस्येव मीनाः समदाः । इति मीने शनैश्चरः । इति नवापि ग्रहा जन्मकुण्डल्याम् । इत्थममुना प्रकारेण जन्मसमये ग्रहेषु सूर्यादिखेचरेषु तस्य हीरकुमारस्य अयस्य शुभकर्मण: पुण्यस्य अभ्युदयस्य वर्धमानकीर्तिप्रतापसंपद्रूपस्य महोदयस्य आवहेषु कारकेषु सत्सु । पुनः कस्यां सत्याम् । नवम्यां तिथी विद्यमानायां सत्याम् । किंलक्षणायाम् । विशदश्रियं श्वैत्यलक्ष्मीमाश्रयन्त्यां सत्याम् । उत्प्रेक्ष्यते-हीरकुमारस्य जन्मानुभावतः जननप्रभावादिव । तिथिः कस्य सहस्य मार्गशीर्षनानो मासस्य । कस्मिन् । विश्वानि त्रीणि, जगन्ति अवनीधरा अष्टौ महाकुलशैलाः, शिलीमुखाः पञ्च स्मरबाणाः, पूषा भानुरेकः, इति संख्या यस्य तादृशे संवत्सरे । कस्मात् । अवनेः पृथिव्याः पुरंदरो यो. विक्रमार्कस्तस्मात् । एतावता संवत् १५८३ विक्रमादित्यसंवत्सरे मार्गशीर्षमासे नवम्यां तिथौ सोमवासरे पूर्वाभाद्रपदभे हर्षणनामयोगे घटी १२ उपरान्तवज्रयोगे मिथुनलग्ने प्रवहमाने तद्दिने प्रहादनपुरवास्तव्य औकशवंश्यसाहकुंरापत्नी नाथी देवी सुतरत्नमजीजनत् । इति संवत्सरादिः । पुनः कस्मिन्सतिं । अस्य हीरकुमारस्य शुभशंसिनि श्रेयः कथयितरि लग्नोदये मिथुनलग्नोद्गमे सति । पुनः कस्मिन्सति । सर्वभूमेरीश्वरः सार्वभौमश्चक्रवर्ती तस्य जन्मनोऽवतारस्य उचिते योग्ये अहनि वासरे सति । पुनः कस्मिन्सति । सह साधिना प्रधानत्वेन वर्तते तादृशे धिष्ण्यस्य नक्षत्रस्य योगे सति । त्वयातः किं नरसाधिमभ्रमः' इति नैषधे । नाथी नन्दनमसूत इति संबन्धः । अथोपमानान्याह-केव । कूलंकषेव। यथा मखभुजां देवानां कूलंकषा नदी गङ्गा केकियानं खामिकार्तिकं जनयतीति सर्वत्र योज्यम् । पुनः केव । आखण्डलामृतमयूखमुखीव । यथा आखण्डलस्य शक्रस्य अमृतमयूखमुखी पीयूषकान्तिवका चन्द्रवदना इन्द्राणी जयं जयन्तनामानमगजम् । पुनः केव । अम्बुरुहिणीव । यथा विजृम्भमाणा विकसन्ती कमलिनी आमोदं परिमलम् । पुनः केव । शुचिमरीचिचकोरचक्षुरिव । यथा श्वेतद्युतेश्चन्द्रस्य चलचञ्चुलोचना पत्नी रोहिणी पश्चार्चिषं बुधम् । पुन: केव । अम्बुदमालिकेव । यथा कादम्विनी सौदामनी वलयं विद्युन्मण्डलम् । पुनः केव । पृथ्वीव । यथा वसुंधरा अनघं संसारापार. पारावारपारप्रापकत्वेन सर्वजगज्जनश्लाघनीयं तीर्थ शत्रुजयशैलादिसिद्धगमनस्थानम् । 'पृथ्वीव पुण्यतीर्थ सा' इति चम्पूकथायाम् । पुनः केव । उर्वरेव । यथा सर्वसस्या क्षेत्रधरित्री कृषि कर्षणम् । पुनः केव । दुग्धपयोधिवेलेव । यथा क्षीरसमुद्रवेला पीयूषकान्ति चन्द्रम् । पुन केव । महेलेव । यथा महामृगाणां गजानां रिपोरिण: केसरिणो महेला स्त्री सिंही। 'महिला स्यान्महेलया' इति शब्दप्रभेदे । तथा 'चश्च परमहेलारतो. ऽप्यपारदारिकः' इति चम्पूकथायाम् । सिंहं मृगेन्द्रम् । पुन: केव । वासरवलक्ष्मीरिव । यथा दिनाननस्य प्रभातस्य श्रीविश्वस्य जगतोऽवबोधं जागरणम् । पुनः केव। मलयाचलो:व यथा मलयशैलस्य वनभूमिः श्रीखण्डं चन्दनद्रुमाङ्करम् । पुनः केव । नीर.
SR No.002262
Book TitleHeer Saubhagya Mahakavyam
Original Sutra AuthorN/A
AuthorDevvimal Gani, Shivdatta Pandit, Kashinath Sharma
PublisherKalandri Jain S M Sangh
Publication Year1985
Total Pages980
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy