________________
३ सर्गः] .. हीरसौभाग्यम् । जनाभस्य पद्मं ब्रह्मोत्पत्तिकमलं नाभौ यस्य स कृष्णस्तस्य पनी जाया लक्ष्मीरिव । यथा कृष्णकान्ता श्रीः शृङ्गारयोनि मदनम् । पुन: केव । जगतीजयश्रीरिव । यथा राज्ञो विजयिनृपस्य जगत्या भूमविजयलक्ष्मीप्रतापम्। पुनः केव । फाल्गुनीव । यथा पूर्वाफाल्गुनी अध्वरभुजां यज्ञभाजिनां देवानामाचार्य गुरुं बृहस्पतिम् ॥ सप्तभिः कुलकम् । इति जन्मसमयः ॥
श्यामीकृतानि कुदृशामपकीर्तिपकै
रस्मन्मुखानि विशदानि विधास्यते यत् । एष स्वकीर्तिविमलत्रिदशस्रवन्ती
विस्फूर्तिभिः किमिति दिक्प्रमदाः प्रसेदुः ॥ ३३ ॥ दिक्प्रमदा दिगङ्गनास्तज्जन्मसमये प्रसेदुः प्रसन्नीबभूवुः । निर्मला जाताः। किमुत्प्रे. क्ष्यते-इति हेतोः । इति किम् । यदेष हीरकुमारः कुदृशां दुर्वादिनां कुमतीनां वा अपकीर्तिभिः अपयशोभिरेव प.: कर्दमैः श्यामीकृतानि मलिनीकृतानि अस्मन्मुखानि खीयकीर्तिरेव विलसन्यास्त्रिजगति प्रसरन्यास्त्रिंदशस्रवन्या गङ्गाया विस्फूर्तिभिर्विलासैविंशदान्युज्ज्वलानि विधास्यते करिष्यतीति । पङ्ककलुषितानां हि गङ्गासलिलक्षालनेन निर्मलीभवनं युक्तिमदेव । पकौघे कर्दमे च । गङ्गास्नानात्पापगमनेन निर्मलीभवत्वेन प्रस. त्रता स्यादेव ॥
भावी यदेष पृथुकः सुमनोनिषेव्य. स्तदृष्टयो दिव इतीव गृहे निपेतुः । हन्ता यतः स तमसां तमसामिवारिः
प्रागेव तैः किमिति भीतिवशात्प्रणेशे ॥ ३४ ॥ यद्यस्मात्कारणात् नाथीनन्दनः पृथुकः बालकः' सुमनोभिर्देवैनिषेव्य उपास्यो भावी भविष्यति । उत्प्नेक्ष्यते-इति हेतोः तदृष्टयः सुमनोवर्षणानि पुष्पवृष्टयः दिवो व्योममण्डलात् गृहे अर्थात्तद्भवने निपेतुः पतिताः । 'चित्रीयितमतिक्हलपतत्पुष्पवृष्टया' इति नलजन्मसमये चम्पूकथायाम् । पुनर्यत्कारणात्स कुमारस्तमसामज्ञानानां पापानां वा अरिहन्ता निवारकः. भावी भविष्यति । क इव । तमसामरिरिव । यथा ध्वान्तानां शत्रुर्भाखान् तमसामन्धकाराणां हन्ता घातको भवति । किमुत्प्रेक्ष्यते इति भीतिव. शाद्भयाधीनत्वात् प्रागेव पूर्वमेव तद्वपुःप्रभाभरैरानिरस्तैस्तमोभरैः सूतिकागृहात्प्रगेशे प्रणष्टम् । पलायितमित्यर्थः । 'सुमनसः पुष्पे देवे महात्मनि च' 'तमोऽज्ञाने पापे ध्वान्ते राही च' इत्यनेकार्थाः ॥
लब्धश्रियानुसरता वसुभूतिपुत्रं .. सारूप्यमाकलयता च युगप्रधानैः ।